________________
देवानामन्तरम्
हैमीवृत्तौ
स्य देवस्य पुनरपि स्वदेवालय एवोत्पद्यमानस्यापरं-जघन्यमन्तर्मुहूर्तमन्तरं, उत्कृष्टं तु वनस्पत्यादिषु पर्यटतस्तस्यैवावलिकासंख्येयजीवसमासे
NIभागवर्त्यसंख्येयपुद्गलपरावर्त्तमानं तत् स्वयमेवावगन्तव्यम् , एवमुपरितनवेयकदेवान् यावत् सर्वोत्कृष्टमिदमेवान्तरं द्रष्टव्यम् , जघन्य अंतरद्वारं
& तूच्यते-'सणंकु सहसारो नवदिण' त्ति सनत्कुमारदेवलोकादारभ्य यावत् सहस्रारदेवलोकस्तावद् ये देवास्तेभ्यः च्युतस्य
देवस्य पुनरपि स्वकीयामरलोक एवोत्पद्यमानस्य नव दिनानि जघन्यमन्तरं भवति, नवदिनेभ्योर्वाक् तत्रासौ नोत्पद्यत इति भावः, ॥२६७॥8'मास'त्ति नवेत्यत्रापि सम्बध्यते, ततश्चानतप्राणतारणाच्युतदेवलोकेभ्यश्च्युतो मनुष्येषूत्पन्नो देवः पुनरपि स्वस्थान एवोत्पद्यमानो
| जघन्यतोऽपि नवभिर्मासैरतिक्रान्तरुत्पद्यते, नार्वा गित्यर्थः, 'वास' ति नवेतीहाप्यनुवर्तते, अतश्च नववेयकेभ्यः सर्वार्थसिद्धवर्जानुत्तरविमानचतुष्टयाच देवश्च्युतो मनुष्येषु जातः पुनरपि स्वस्थान एवोपजायमानो जघन्यतोऽपि नवभिवरतिक्रान्तैरुपजायते, नागिति भावः, नवमग्रैवेयकर्पयन्तः प्रागसंख्येयपुद्गलपरावर्तात्मकाऽनन्तः काल उत्कृष्टतोऽन्तरे सिद्धान्तोक्तो दर्शितः, सर्वार्थसि
वर्जानुत्तरविमानदेवानां तूत्कृष्टमन्तरं स्वयमेवाभिधित्सुराह- ' अणुत्तरुक्कोस उयहिदुगं' ति विजयाद्यनुत्तरविमानचतुष्टयात् च्युतो देवो मनुष्येषु परिभ्रमन् मुक्तिं चाप्राप्नुवन् उत्कृष्टतः सागरोपमद्वयात् पुनरपि विजयादिविमानेषूत्पद्यते, सर्वार्थसिद्धविमाने त्वन्तरचिन्ता नास्ति, ततश्च्युतस्य तद्भव एवावश्यमुक्तिगमनादिति भावः, एष तावत् प्रस्तुतग्रन्थाभिप्रायः, व्याख्याप्रज्ञप्ती तु भवनपत्यादिभ्यः सहस्रारान्तेभ्यो देवेभ्यश्युतस्य कस्यचिज्जीवस्येह तिर्यसूत्पद्यान्तर्मुहूर्त्त जीवित्वा पुनरपि स्वकीयदेवस्थाने
उत्पद्यमानस्य जघन्यतोऽन्तर्मुहूर्तमन्तरमुक्तं, मनुष्यस्तु य ईशानान्तदेवेषूत्पद्यते सोऽगुलपृथक्त्वावगाहनाया मासपृथक्त्वमानाचानयुषोऽर्धाग नोत्पद्यते, यस्तु सनत्कुमारादिष्वनुत्तरविमानपर्यन्तेषु देवेषु मनुष्यो जायते स हस्तपृथक्त्वावगाहनाया वर्षपृथक्त्वप्रमाणा
54456
॥२६७॥