________________
जीवसमासे हैमीवृत्तौ अंतरद्वारं
॥२६५॥
प्रत्येकशरीरिणाम्रवृत्तानां पुनः प्रत्येकशरीरित्वेऽर्द्धतृतीयपुद्गलपरावर्त्तलक्षणमुत्कृष्टमन्तरमिति गाथार्थः ।। २५२ ।। अथ बादरनिगोदादीनामन्तरकालमाह
बायरसुहुमनिओया हरियत्ति असंख्या भवे लोगा । उयहीण सयपुहुत्तं तिरियनपुंसे असण्णी य ॥ २५३॥
बादरनिगोदजीवानां बादरेभ्य उद्वर्त्यान्यत्रोत्पन्नानां पुनरपि बादरनिगोदत्वप्राप्तौ जघन्यतोऽन्तर्मुहूर्त्तमुत्कृष्टतस्त्वसंख्येया लोका अन्तरं भवति, असंख्येयलोकाकाशप्रदेशराशिप्रतिसमयापहारनिष्पन्नासंख्येयोत्सर्पिण्यवसर्पिणीमान मुत्कृष्टमन्तरं भवतीत्यर्थः, बादरनिगोदेभ्य शुद्वृत्तानां बादरनिगोदानां सूक्ष्मनिगोदजीवाः पृथिव्यप्तेजोवायुप्रत्येकवनस्पतित्रसाश्चोत्पत्तिस्थानं, तेषु चोत्कर्षतोऽ| प्येतावानेव स्थितिकाल इतिभावः, एवं निगोदजीवानामपि सूक्ष्मनिगोदजीवेभ्य उद्वर्त्यान्यत्रोत्पन्नानां पुनरपि सूक्ष्मनिगोदत्वभवने एतदेवोत्कृष्टमन्तरं भावनीयम्, एतेषां हि स्वकायादुद्वृत्तानां बादरनिगोदाः पृथिव्यादयश्च जन्मस्थानं, तेष्वपि चोत्कर्षतोऽप्येतावानेव स्थितिकाल इति परमार्थः, 'हरिय ' ति सामान्येन वनस्पतयस्तेषामपि स्वकायान्निर्गत्यान्यत्रोत्पन्नानामिदमेवान्तरं, यतस्तेषामपि तत उद्वृत्तानां पृथिव्यप्तेजोवाय्वादयो गमनस्थानं, तेष्वपि चोत्कृष्टत एतावानेवावस्थानकाल इति हृदयम्, इह च यत् प्रागुक्तमप्यन्तरं पुनरुच्यते तदस्य राशित्रयस्यापि तुल्यान्तरताख्यापनार्थमित्यदोषः, अन्यस्यापि राशित्रयस्य तुल्यमन्तरं दर्शयन्नाह- 'उयहीण सयपुहुत्त ' मित्यादि, ' तिरिय ' ति तिरवां तावत्तिर्यग्गतेर्निर्गत्य शेषगतित्रये पर्यटतां पुनरपि तिर्यक्त्व प्राप्तौ जघन्यतोऽन्तर्मुहूर्त्तमुत्कृष्टतस्तु सातिरेकसागरोपमशतपृथक्त्वमन्तरं भवति, सातिरेकत्वं चाल्पत्वेनेहानुक्तमपि स्वयमेव द्रष्टव्यं, शेष
निगोदहरिततियग्नपुंसका
संज्ञि नामन्तरं
॥२६५॥