________________
या साकराप्रभायालयां चत्वारो मावा कदाचिना रना
जीवसमासे चेदुच्यते-सामान्येन समपि नरकगतिमाश्रित्य जघन्येनैका समय उत्कृष्टतस्तु द्वादश मुहूर्ताः, एतावन्तं कालमन्यत आगत्यै
द्र नरकेषहैमीवृत्तौ. कोऽपि जन्तुर्नरकगतौ नोत्पद्यते इति भावः, इदं तु सूत्रेऽनुक्तमपि स्वयमेव द्रष्टव्यम् , यत उक्तमागमे-“निरयगई णं भंते ! केवइयं
त्पादः अंतरद्वारं | कालं विरहिया उववाएणं पण्णत्ता ?, गोयमा ! जहण्णेणं एकं समयं उक्कोसेणं बारस मुहुत्त " ति, तदेवं सामान्येन नरकगतौ |
मनुष्येषु च ॥२६॥ उत्पादस्यान्तरमुक्तम्, विशेषचिन्तायां तु रत्नप्रभादिकासु नरकपृथ्वीषु यदुत्पादस्यान्तरं तत् सूत्रकारः स्वयमेवाह-'चउवीसे'
| त्यादि, रत्नप्रभानरकपृथिव्यामन्यत आगत्योत्पद्यमानानां जन्तूनां जघन्यतः समय उत्कृष्टतस्तु चतुर्विंशतिमुहूर्ती अन्तरं भवतीति गाथायां साध्यमध्याहृत्य प्रक्रमात स्वयमपि योजनीयम्, मुहर्तस्तु घटिकाद्वयप्रमाणो मन्तव्यः, एवं जघन्यमन्तरं सर्वत्र समय एव, उत्कृष्टं तु शराप्रभायामुत्पादस्य सप्त दिनान्यन्तरं वालुकप्रभायां पश्चदशदिवसलक्षणः पक्षोऽन्तरं पङ्कप्रभायां मासः धूमप्रभायां मासद्वयं तमायां षष्ठपृथिव्यां चत्वारो मासास्तमस्तमायां तु सप्तमपृथिव्यां षण्मासा उत्कृष्टमन्तरं भवति, निजनिजोक्तकालं यावदेतासु पृथ्वीष्वन्यत आगत्यैकोऽपि जोवः कदाचिन्नोत्पद्यत इति भावः, अत्र मुग्धः प्रेरकः कश्चिदाह-ननु सामान्येन नरकगतौ द्वादशमुहूत्तेप्रमाणो विरहकाल उक्तः, तद्विशेषभूतासु च रत्नप्रभादिनरकपृथ्वीषु चतुर्विशतिमुहूर्तादिकः षण्मासावसानोऽयमीभहितो, न तु क्वापि द्वादशमुहूर्त्तमानः, यश्च विशेषभृतासु नरकपृथ्वीषु क्वापि नास्ति स कथं तत्सामान्यरूपायां नरकगतौ द्वादशमुहूर्तमानो विरहकालो भविष्यति, न हि सिकताकगविशेषेषु प्रत्येकमविद्यमानं तैलं ततसामान्यरूपायां सर्वस्यामपि सिकतायां 181
1 ॥२६॥ & भावतुमर्हति, अत्रोच्यते, अयुक्तमिदमभिहितं भवता, सर्वस्यां हि नरकगतौ सप्तापि नरकपृथिव्यः पिण्डिताः प्राप्यन्ते, ततस्तासु | प्रत्येकमविद्यमानोऽपि समुदायापेक्षया द्वादशमुहूर्तमानो विरहकालो नगरदृष्टान्तन प्राप्यत एव, तथाहि-कस्मिंश्विनगरे सप्त महा-|
SARA