________________
जीवसमासे हैमीवृत्तौ अंतरद्वारं
॥२५५॥
देवाः पंचेंद्रिय तिर्यग्नरेष्वेवोत्पद्यन्ते, नान्यत्रेति गाथार्थः ॥ २४६ ॥ तदेवं चतुर्गतिकानामपि जीवानां निरूपितमुत्पत्तिस्थानम्, अथ गत्युपपाताद्वर्त्तनाविरहलक्षणस्यान्तरस्याग्रे प्रतिपादयिष्यमाणत्वात् येषां जन्तूनां निरन्तरमुत्पतिर्निरंतरं चोद्वर्तना, तद्विरह एव तावन्न सम्भवति, तदेतद्दर्शयन्नाह---
चणुवाओ एगिंदियाण अविरहियमेव अगुसमयं । हरियाणंता लोगा सेसा काया असंखेज्जा ॥ २४७ ॥
पृथिव्यप्तेजोवायु बनस्पतिलक्षणानामेकेंद्रियाणां च्यवनमुद्वर्त्तनं मरणमिति तात्पर्यम् उपपातः- उत्पत्तिर्जन्मेति हृदयं तदेतद् द्वितयमपि सर्वेषां प्रत्येकमनुसमयं प्रतिसमयमविरहितं - निरंतरं भवति, पृथिव्याद्ये केंद्रियेषु प्रत्येकं प्राणिनामुत्पत्तिः प्रतिसमयं निरंतरैव सम्पद्यते, मृत्वा जन्मान्तरगमनलक्षणं च्यवनमपि तेषु प्रत्येकमसुमतां प्रतिसमयमविरहितमेव जायत इत्यर्थः, जन्तूनामुत्पश्युद्वर्त्तनयोः प्रतिसमयमेव भावात् एतेष्वन्तरं कदाचिदपि न प्राप्यत इति भावः तर्हि कियन्तो जीवाः प्रत्येकमेतेषु पृथिव्याद्येकेन्द्रियेषु समये समये उत्पद्यन्ते उद्वर्त्तन्ते वा इत्याह-' हरिये ' त्यादि, हरितेषु सामान्येन वनस्पतिलक्षणेष्वेकेन्द्रियेषु तावदनन्त लोकाकाशप्रदेशराशिप्रमाणा जीवाः समये समये उत्पद्यन्ते उद्वर्त्तन्ते च ' सेसा काया असंखज्ज ' त्ति विभक्तिव्यत्ययाच्छेषेषु पृथिव्यप्तेजोवायुलक्षणेषु चतुर्ष्व केन्द्रियकायेषु प्रत्येकमसंख्येयाः, लोका इत्यत्रापि वर्तते, ततश्चासंग्ब्येयलोकाकाशप्रदेश शिप्रमाणा जीवाः समये समये उत्पद्यन्ते उद्वर्त्तन्ते चेति स्वयमेव द्रष्टव्यम्, वनस्पतिजीवा धनन्तानन्तसंख्यास्तत एषूत्पद्यमाना उद्वर्त्तमानाश्च जीवाः प्रतिसमयमनन्ताः प्राप्यन्ते, शेषास्तु पृथिव्यादिकायाः प्रत्येकम संख्या असंख्येयस्वरूपा एव भवन्ति, अतस्तेषु जायमाना श्रियमाणाश्च जन्तवः प्रति
एकेन्द्रियोत्पादः
॥२५५॥