________________
॥ २० ॥
అపారకం పాత్రనుంచ
Co
Co
सुराश्चेत्यनुत्तरसुराः, विजयवैजयन्तजयन्तापराजितसर्वार्थसिद्धलचणविमानपञ्चकवासिनः एते उभयरूपा अपि कल्पातीता इति मन्तव्याः तेष्वहमिन्द्रतया मननकरणार्दिकल्पल्य सर्वथैवासम्भवादिति गाथार्थः || १६ || अथ भवनपत्यादिदेवानामुत्तरभेदान् प्रतिपादयितुमुपक्रमत -
असुरा नागसुवन्ना दीवोदहिथमियविज्जुदिसिनामा । वायग्गिकुमाराविय दसेव भणिया भवणवासी ॥ १७ ॥
•
कुमारशब्दः प्रत्येकमभिसम्बध्यते, ततभासुरकुमारा नागकुमाराः सुवर्णकुमारा दीपकुमारा उदधिकुमाराः स्तनितकुमारा विद्युत्कुमारा दिक्क मारा वायुकुमारा अग्निकुमारा इत्येवं दशविधा एव भवनवासिनो भवन्ति, गाथाबन्धानुलोम्यादिकारणाच्च कुतश्चिदेते एवं प्रटिता: आगमे त्वमी अमुनैव क्रमेण पठ्यन्ते, यथासुवन्ना बिज्जू अग्गी य दीव उदही य। दिसि वाऊ तह थणिया दसभेया हुति भववई ॥ १७ ॥ " व्यन्तरभेदानाह
"असुरा नाग
किंनर किंपुरिसमहोरगा य गंधव्व रक्खसा जक्खा । भूया य पिसाधाविय अट्ठविहा वाणमंतरिया ॥ १८ ॥ एतेऽप्यागमे प्राय इत्थमेव निर्द्दिश्यन्ते तद्यथा - "पिसाय भूया जक्खा रक्खसा किंनरा य किंपुरिसा । महोरगा य गंधव्या अहविहा वाणमंतरिया || १ || इह तु किंनरादिक्रम निर्देशकारणं स्वयमभ्यूह्यमिति ॥ १८ ॥ ज्योतिष्कभेदानाह
'चंदा सूरा य गहा नक्खत्ता तारगा य पंचविहा। जोइसिया नरलोए गइरयओ संठिया सेसा ॥ १६ ॥
असङ्ख्येयाश्चन्द्राः असंख्येयाश्च सूर्याः, एवं प्रत्येकमसङ ख्याता ग्रहनक्षवतारका इत्येवं ज्योतिषिकाः पञ्चविधाः । आह नन्वेते परिदृश्यमानचन्द्रादिवत्सर्वेऽपि चला उत केचिदवस्थिता अपि भवन्ति ? इत्याशङ्क्याह-'नरलोए गइरयड' त्ति नरलोको - मनुष्यक्षेत्र तत्र, ये ज्योतिष्कास्तल नरलोके मानुषोत्तरपर्वतादवग् वर्तन्ते ते | सर्वेऽपि गतौ चलने रतिः-स्वभावतो वृत्तिर्येषां ते गतिरतयः, शेषास्तु ये मानुषोत्तरपर्वतात्परेण स्वयम्भूरमणसमुद्र यावद्वर्तन्ते ते सर्वऽपि 'संस्थिताः' प्रचलनधर्मकत्वेन स्थानस्था एव तिष्टन्तीत्तर्थः, कचित् ‘तिरियलोए इतिपाठः, स चासङगत एव लक्ष्यते, यतो नरलोके गतिरतय इत्येवमेवोक्त े संस्थिताः शेषा इत्युपपयते, नान्यथा, तिर्यग्लोकादन्यषां
भवनपतिव्यन्तरज्योति
काः गा १७८६
॥ २० ॥