________________
समयमात्र स्थितिका भावा:
साद्य तदनन्तरं मरणसम्भवादिति, एवं वाग्योगोऽपि जघन्यतः समयमेकं भवति, कस्यापि द्वीन्द्रियादिजीवस्य समयमेकं जीवसमासे I भाषापर्याप्त्या पर्याप्तत्वमनुभूय तदनन्तरं मरणभावादिति, ' उरल'त्ति, औदारिकशरीरी वैक्रियं कृत्वा प्रयोजनसिद्धौ हैमीवृत्ती परित्यज्य च पुनरौदारिकमागतः समयमेकं जीवित्वा मृतः कार्मणयोगी वैक्रिययोगी वा सञ्जात इत्यनया विवक्षया कालद्वारे औदारिककाययोगो जघन्यतः समयस्थितिको भवति, वैक्रियलब्धिरहितानां तु पृथिव्यादीनामौदारिककाययोगो ॥२४५॥
जघन्यतोऽप्यन्तर्मुहर्तिक एव विज्ञेयः, ' वेउब्विय ' त्ति औदारिकशरीरिणा वाय्वादिना वैक्रियमारब्धं, तदारम्भे च समयमेकं जीवित्वा मृतो योगान्तरं चापन इत्येवं वैक्रियकाययोगोऽपि जघन्यतः समयमवाप्यते, ' आहारय '. त्ति चतुर्दशपूर्वधर आहारकशरीरयोग्यान् पुद्गलान् समयमेकं गृहीत्वा मृत इत्याहारककाययोगो जघन्यतः समय
इत्येवं तावत् केचिद् व्याचक्षते, एतच्चानागमिकमिव लक्ष्यते, आहारकशरीरस्यागमे जघन्यतः उत्कृष्टतश्चान्तर्मुहूर्त्तस्थितिकदत्वेनोक्तत्वात् तस्मात् कृताहारकशरीरश्चतुर्दशपूर्वघरः कार्यसिद्धिप्रत्यासत्तिकाले मनोयोगाद्वाग्योगाद्वा उत्तोर्य पुनरपि च समयमेकमाहाहैरककाययोगमनुभूयौदारिकशरीरं प्रतिपद्यत इत्यनया कयाचिद् विवक्षया यदि परं जघन्यतः समयस्थितिकोऽयमाहारककाययोगो
भवतीत्यलं विस्तरण । 'कम्भजोग'त्ति विग्रहे यदा एकं समयमनाहारको भवति तदा कार्मणकाययोगस्य जघन्यतः समयस्थितिकत्वमवगन्तव्यम्, 'अणरित्थि' ति न नरोज्नरः पयुदासाश्रयणानपुंसकोत्र विवक्षितः ततश्चानरश्च स्त्री चानरस्त्रियौ, नपुंसकवेदस्त्रीवेदाविति भावः, तयोरपि प्रत्येकं जघन्यतः समयः स्थितिकालः, एतच्च 'देवी पणपण्णाऊ' इत्यादिगाथावृत्तौ भावनासहितं निर्दिष्टमेवेति, 'संजमविभाग'त्ति संयमः सामान्येन चारित्ररूपोत्र विवक्षितस्तस्य विभागा-भेदाः सामायिकच्छेदोपस्था
*SAASEASEASN-%
NASHIKASHREERSIS
॥२४५॥
प्रत्येक जब नरोऽनरः पर्युदासामनाहारको भवति जयन्यतः सम
TECH