________________
जीवसमासे हैमीवृत्ती.
समयमात्र स्थितिका भावाः
कालद्वारे ॥२४४॥
AAAAAAA
तद्यथा-" सकसाई णं भंते ! सकसाइत्ति कालओ कीच्चर होइ ?, गोयमा ! सकसाई तिविहे पण्णत्ते, तंजहा-अणाईए वा अपज्जवसिए अणाईए वा सपज्जवसिए साईए वा सपज्जवसिए, तत्थ णं जे से साई सपज्जवसिए से जहण्णेणं अंतोमुहुत्तं उक्कोसेणं अवड्डपोग्गलपरियट्टू देसूर्ण"ति, तत्र मिथ्यात्वस्येव प्रथमभंगकोत्राप्यभव्यानां, द्वितीयस्त्वनादिमिथ्यादृशां भव्यानां, तृतीयभंगके तु य उपशान्तवीतरागावस्थायामकषायीभृत्वा प्रतिपत्य पुनः सकषायित्वं प्रतिपद्यतेऽन्तर्मुहर्ताच्च पुनरप्युपशमश्रेणी कृतायामकषायो सम्पद्यते तस्यान्तर्मुहूर्तप्रमाणं जघन्यपदवर्ति सकपायित्वं लभ्यते, यस्तूपशान्तवीतरागावस्थायाःप्रतिपत्य सकषायीभूत्वाऽपाद्धेपुद्गलपरावर्त्त यावत् संसारसागर परिभ्रम्य पुनरप्यकषायी भवति तस्योत्कृष्टपदोक्त सकषायित्वं द्रष्टव्यम् , प्रस्तुतविचार्यमाणगाथायां तु सकषायित्वस्य तृतीयभंगकजघन्यपदमेवोक्तम्, शेषं तूपलक्षणत्वात् स्वयमेव द्रष्टव्यम् , अन्तर्मुहूर्त्तस्थितिगुणकालस्यैव प्रस्तुतगाथायामभिधातुमिष्टत्वादिति, 'जहण्णमंतोमुहत्तंतो' त्ति एतत पदं काययोगादिषु प्रत्येकं सर्वत्र योजनीयं, तच्च योजितमेवति गाथार्थः ॥ २३५ ॥ तदेवमन्तर्मुहर्तस्थितिकगुणाः सम्पिण्ड्योक्ताः, साम्प्रतं तु जघन्यतः समयस्थितिकान् मनोयोगादीन् गुणान् संगृह्य विवक्षुराहमणवइउरलविउब्बिय आहारयकम्म जोग अणरित्थी । संजमविभागविन्भंग सासणे एगसमयं तु ॥ २३६ ॥
जघन्यत इति पूर्वगाथातोऽनुवर्तमान सम्बध्यते, योगशब्दोऽपि 'कम्मजोग 'त्ति अस्मिन् पदे उपाचोऽपि यथासम्भवमन्यत्रापि योज्यते, ततश्च मनोयोगस्तावज्जघन्यतः समयमेकं भवति,कस्यचिद्गर्भजपंचेंद्रियस्य समयमेकं मनःपर्याप्त्या पर्याप्तत्वमा
॥२४४॥