________________
215
अन्तर्मुहूर्त
स्थापिनो भावाः
जीवसमासे हैमीवृत्ती कालद्वारे
॥२४॥
***
ज्ञानिनोऽन्तर्मुहर्तमवस्थितिकाल हीत, उत्कृष्टतस्तु केवलज्ञानलक्षणं ज्ञानमाश्रित्य ज्ञानी अपर्यवसितलक्षणमनन्तं कालं लभ्यत इति सुखोन्नेयमेवेति, 'मिच्छं' ति मिथ्यात्वं जघन्यतोऽन्तर्मुहूत्तं भवति, तच्च सम्यग्दृष्टेः प्रतिपत्य मिथ्यात्वं गतस्य तत्र चान्तर्मुहूर्त स्थित्वा पुनर्लब्धसम्यक्त्वस्य प्रागेव 'मिच्छत्तमणाईयं अपज्जवसिय'मित्यादिगाथावृत्तौ उत्कृष्ट कालभावानां प्रक्रमे भावितमेव, 'मिस्सा य'त्ति मिश्रं सम्यग्मिथ्यात्वमिति तात्पर्यम् , तदपि जघन्यतोऽन्तर्मुहुर्त भवति, अस्य च सम्यग्मिथ्यात्वस्य | जघन्य उत्कृष्टश्च स्थितिकालः 'सासायणेगजीवियेत्यादिगाथायां सूत्रकृता प्रागप्युक्तः, किन्तु जघन्यतोऽन्तर्मुहूर्त्तस्थितिकगुणाभिधानप्रस्तावात् पुनरप्याभिहित इति, 'चक्खु'त्ति चतुःपंचेंद्रियाणां चक्षुद्वारोत्पन्नसामान्योपयोगलक्षणं चक्षुदर्शनं, तदपि जघन्यतोऽन्तर्मुहुर्तमेव भवति, उत्कृष्टस्त्वेतदवस्थितिकालः पूर्व विभंगस्स भवडिईत्यादिगाथायामुक्तः, 'सण्णी यत्ति संज्ञिपंचेंद्रियगर्भजो जीवः, सोपि निरंतरं तद्भावेन जघन्यतोऽन्तर्मुहूर्तमेवावतिष्ठते, उत्कृष्टावस्थितिकालस्तु 'पुरिसत्तं सण्णित्तं च सयपुहुत्तं च उदहीण 'मित्यत्रैव प्रतिपादितः, 'आहार'त्ति आहारयतीत्याहारको जीवः, सोऽपि निरंतरं तद्भावे जघन्यतोऽन्तर्मुहूर्तमवाप्यते, आह-ननु 'असंखभागंगुलाहारो'त्ति उत्कृष्टाहारकस्थितिकालप्रीतपादकगाथाऽवयवविवरणप्रक्रमे त्रिसमयोन क्षुल्लकभवग्रहणमाहारकत्वस्य जघन्यः स्थितिकाल उक्तोत्र त्वन्तर्मुहर्त्तलक्षण इति कथं न विरोध इति, नैतदेवं, भावार्थापरिज्ञानाघतोत्राप्याहारकत्वस्य जघन्यस्थितिरूपतया यदन्तमुहूर्त्तमुच्यते तदपि त्रिसमयोनक्षुल्लकभवग्रहणमानेमवावसेयम्, अन्तर्मुहुर्त्तस्यानकभेदत्वादिति न कश्चिद्विरोध इति, 'कसायाविय'त्ति कषायाः सामान्येन कषायमोहनीयकर्मोदयरूपा इह गृह्यन्ते, सामान्येन सकपायित्वमात्र कषायशब्दवाच्यत्वेनेह विवक्षितमित्यर्थः, तच्चागमे स्थितिकालमपेक्ष्य भंगकत्रयवर्तित्वेनोक्तम् ,
DIR४३॥
*