SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ जीवसमासे हैमीवृत्तौ कालद्वारे ॥२३०॥ एवोक्तः, सत्यं, द्वितीय एव पक्षोऽत्राश्रितः, ततः केवलं य एव वाङ्मनोयोगरहितः केवल औदारिककाययोगस्तस्यैवावस्थितिकालाच - न्तयितुमत्राभिप्रेतः, एवंभूतश्वासंख्येयवर्षायुषां न प्राप्यते, वाङ्मनोयोगयोरपि तेषां सद्भावाद, एकेन्द्रियाणां तु केवल एवासौ लभ्यते, तस्य चैकभविकस्योत्कृष्टो द्वाविंशतिवर्षसहस्रमान एवावस्थितिकालो भवतीत्यलं विस्तरेण । 'समयतिगं कम्महगो ' त्ति | कार्मणकाययोगः केवलो भवान्तराल एव लभ्यते, नान्यत्र तत्र च पूर्वप्रतिपादितचतुःसामयिकविग्रहे त्रीन् समयानुत्कृष्टतोऽसौ प्राप्यते, पंचसामायिकस्तु विग्रहः स्वल्पजीवभावित्वेनेह न विवक्षित इति, आह विनेयः ननु तैजसकाययोगः कार्मणात् पृथक् केवलः कदाचिदपि न लभ्यते, अतः कार्मणकाययोगावस्थितिकालप्रतिपादनेनैव तेजसस्यासौ प्रतिपादित एवेत्यवगच्छामः, शेषषोस्तु वैक्रियाहारककाययोगयोः वाङ्मनोयोगयोश्वावस्थितिकालः प्रतिपाद्यतामित्याशंक्याह - 'सेसा जोगा मुहत्तंतो 'ति उक्तशेषा योगा वैक्रियाहारकवा मनोयोगलक्षणा प्रत्येकमुत्कृष्टतोऽप्यन्तर्मुहूर्त्तमेव भवन्ति, तथाहि य एव वाङ्मनोयोगरहितः केवलो वैक्रियकाययोगस्तस्यैवेह स्थितिकालोऽभिवित्सितः, केवलश्चायं वैक्रियलाब्धिमतां वायूनामेव लभ्यते, न देवादीनाम् तेषां वाङ्मनोयोगयोरपि सद्भावाद, वायूनां चोत्कृष्टतोऽपि वैक्रियकाययोगोऽन्तर्मुहूर्तमेवावतिष्ठते, आहारककाययोगस्य तु चतुर्दश पूर्वविदो विहायान्यत्र सम्भव एव नास्ति, स च तेषामन्तर्मुहूर्तात् परं न तिष्ठतीति प्रतीतमेव, वाग्योगमनोयोगावपि प्रत्येकमन्तर्मुहूर्त्तमेव भवतः, अयं च योगानामुत्कृष्टोऽवस्थितिकालः प्रोक्तः, जघन्यतस्तु स्वयमेव काययोगवाग्योगमनोयोगानां प्रत्यवसेयः, स चायं - सामान्येन काययोगस्य विशेषत औदारिकाहारक काययोगयोश्च प्रत्येकमन्तर्मुहूतं जघन्योऽवस्थितिकालः, वैक्रियकार्मणकाययोगवाग्योगमनोयोगानां प्रत्येकं प्रत्येकं जघन्यतः समय एवेति गाथार्थः ।। २२९ ।। अथ वेदादिगुणावस्थितिकालमाह वेद स्थितिः ||२३०॥
SR No.600370
Book TitleJiv Samas Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherAgmoday Samiti
Publication Year1927
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy