________________
जीवसमासे हैमीवृत्तौ कालद्वारे
॥२२९॥
त्वन्तर्मुहूतं, एकजीवं त्वाश्रित्य सास्वादनानां जघन्यतः समय उत्कृष्टतस्तु पडावलिकाः, मिश्राणां जघन्यत उत्कर्षतश्चान्तर्मुहर्त्तमेवेति गाथार्थः ॥ २२८ ॥ तदेवं मिथ्यात्वसास्वादनत्वमिश्रत्वादिगुणानां मार्गणाद्वारेषु मध्ये गतिद्वारेऽपि दिक्प्रदर्शना थं दर्शितोऽवस्थितिकालः, ततोऽनया दिशा शेषेष्वपीन्द्रियादिद्वारष्वमीषां गुणानां स्वबुद्धयैवावस्थितिकालोऽभ्यूह्यः, साम्प्रतं गुणकालाभिधानप्रस्तावाद्येोगवेद संज्ञित्वादीनामपि गुणानां तमभिधित्सुराह -
कागतकालं वाससहस्सा उराल बावीसं । समयतिगं कम्मइओ सेसा जोगा मुहुत्तंतो ।। २२९ ।। 'काओगsicकालं ' तिचीयत इति कायः शरीरं युज्यते सम्बध्यते कर्मादिभिः सह जोवोऽनेनेति योगः कायश्चासौ योगश्च काययोगस्तत्रैव च केवलं वर्त्तमानो जन्तुरनन्तकालमवतिष्ठते, स च जन्तुरत्रैकेन्द्रिय इति प्रतिपत्तव्यम्, तस्य हि प्रागसंख्येपुद्गलपरावर्त्तलक्षणोऽनन्तः कालः कायस्थितौ निर्दिष्टः, एतावन्तं च कालमसौ केवले काययोग एव वर्तते, एकेंद्रियाणां वाङ्मनोयोगयोरभावादित्युत्कृष्टतः काययोगस्यानन्तो ऽवस्थितिकाल इति, अथ काययोगस्यैव विशेषतोऽवस्थितिकालमाह- ' वाससहस्सा उराल बाबीस' त्ति औदारिककाययोगो द्वाविंशतिर्वर्षसहस्राणि खरबादर पृथ्वीकायिकस्योत्कृष्टतः प्राप्यते, आह- नन्वयमौदारिककाययोगस्य किं नाना भवानाश्रित्यावस्थितिकाल उच्यते आहोस्विदेकमेव भवं?, यद्याद्यः पक्षस्तर्हि प्रतिभवं निरन्तरमृजुगत्योत्पद्यमानस्यै केन्द्रियादेरुत्कृष्टतोऽसंख्येयमपि कालमौदारिककाययोगः समये निर्द्दिश्यते, किमित्येतावानेवोक्तः, अथ द्वितीयः पक्षस्तसंख्येयवर्षायुषामेकस्मिन्नपि भवे त्रीणि पल्योपमान्युत्कृष्टत औदारिककाययोगो लभ्यते, किमिति द्वाविंशतिवर्षसहस्रमान
4
योगवेद संज्ञित्वादि
कालः
॥२२९॥