________________
हमीवृत्ती
योगवेद संज्ञित्वादि काल:
जीवसमासेडू ग्रन्थगहनताभयात् , तथाविधोपयोगाभावाच्चेति गाथार्थः ।। २२७ ।। तदेवं विशेषचिन्तायामपि मिथ्यात्वसम्यक्त्वगुणयोरभिहितो
गतिचतुष्टयेऽपि स्थितिकालः, साम्प्रतं पुनर्मनुष्यगतावेव सास्वादनमिश्रगुणयोनानाजीवानकजीवं चाश्रित्य तमभिधित्सुराहकालद्वारे
सासायणमिस्साणं नाणाजीवे पडुच्च मणुएसु । अंतोमुत्तमुकोसकालमवरं जहुरिट्ठ ॥ २२८॥ ॥२२८||
सास्वादनसम्यग्दृष्टीनां सम्यमिथ्यादृष्टीनां च मनुष्येषु नानाजीवानाश्रित्य उत्कृष्टकालं च प्रतिपादयितव्यं प्रतीत्यान्त| मुहूर्त यावदवस्थितिः, इदमुक्तं भवति-सास्वादना मिश्राश्च मनुष्येषु नानाजीवानाश्रित्य निरन्तरं भवन्त उत्कृष्टतः प्रत्येकमन्तर्मुहूर्तमेव भवन्ति, न परतः, परतोऽवश्यमन्तरस्य सद्भावादिति, आह शिष्यो-यदि नाना जोवानाश्रित्येयमुत्कृष्टा भवस्थितिस्तहि जघन्या किंप्रमाणेति कथ्यता तथैकजीवं समाश्रित्योत्कृष्टा जघन्या च किंमाना सेत्यपि चावेद्यतामित्यत्राह-'अवरं जहुद्दि' ति अवरम्-अन्यदुक्तशेष नाना जीवानाश्रित्य जघन्यस्थितेर्मानं एकजीवाश्रितायास्तु जघन्याया उत्कृष्टायाश्च तस्याः प्रमाणं यथोद्दिष्ट विजे| यम् 'यथा' येन प्रकारेणाविशेषितगतिचतुष्टयाश्रिते औधिकविचारे सास्वादनमिश्राणामेतस्थितिप्रमाणं "पल्लासखियभागो सासण मिस्सा य हुंती" त्यादिना ग्रन्थेन प्रागुद्दिष्ट-कथितं तथैवहापि वाच्यमित्यर्थः, इदमुक्तं भवति-अविशेषितगतिचतुष्टयाश्रित| सामान्यविचारे सास्वादनमिश्राणां नानाजीवानाश्रित्य प्रत्येकमुत्कृष्टतः पल्योपमासङ्खधेयभागप्रमाणोऽवास्थितिकालः प्रागभिहि
तः, अत्र वेकामेव मनुष्यगतिमाश्रित्य विशेषतोऽमीपामा चिन्त्यमानोऽन्तर्मुहर्त्तमान एव निर्दिष्ट इति विशेषः, शेष त्ववस्थिति| कालमानममीषां प्रागुद्दिष्टमेवेहापि मन्तव्यम् , तच्चेदम्-सास्वादनाना नानाजीवान् प्रतीत्य जघन्यतः समयः, सम्यग्मिध्यादृष्टीनां
HISTARSAA
%