SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ जीवसमासे हैमीवृत्ती कालद्वारे ॥२२४॥ AASARAKASRANA मिथ्यादृष्टयो भवस्थितिका नरकेषु भवन्तीति सम्बन्धः, इदमुक्तं भवति-मिथ्यादृष्टिनारकाणां सर्वास्वपि नरकपृथ्वीषु यथा मिथ्याग्स्वं भवस्थिति यावन्मिथ्यात्वं भवति, ये ह्यतः स्थानान्मिथ्यात्वानुगता एव रत्नप्रभादिकास्वधःसप्तमीपर्यन्तासु पृथ्वीपूत्पद्यन्ते नारकदेव तत्र गताश्च सम्यक्त्वं न लभन्ते तेषामुत्कृष्टतः सागरोपमादिकं त्रयस्त्रिंशत्सागरोपमपर्यन्तमात्मीयात्मीयां भवस्थितिं यावन्मिथ्यात्वं । स्थितिः | भवतीति सुबोधम्, एवं 'सम्मं देसूणमेव उक्कोसं ति सम्यक्त्वमप्युत्कृष्टं कालमाश्रित्य एवमेव सागरापेमादिभवस्थितिप्रमाणं वक्त| व्यम्, केवलं देशोनं, कासुचित्ररकपृथिवीषु भवस्थितेर्देशोनता वक्तव्येत्यर्थः, यासु हि नरकपृथ्वीषु सम्यक्त्वयुक्तस्योत्पत्तिः पूर्व निषिद्धा तासु मिथ्यात्वसमनुगतः समुत्पन्नोऽपर्याप्तः सम्यक्त्वं न लभते, किंतु पर्याप्त एव तदामोति, अतोऽपर्याप्तकालेन न्यूनता भवस्थितेईष्टव्या, सप्तमनरकपृथिव्यामप्यष्टाविंशतिसत्कर्मादिः कोऽपि पर्याप्तावस्थायां सम्यक्त्वं लभते, किन्तूद्वर्तनाकालेऽ|न्तर्मुहूर्तशेषे स्वायुष्यवश्यमेव तदसी परित्यजति, तिर्यक्ष्वेव तत उत्पादात् तेषु च सम्यक्त्वस्योत्पत्तिनिषेधात्,तस्मात्तस्यां त्रयस्त्रिंशत्सागरोपमलक्षणा उत्कृष्टा सम्यक्त्वस्य भवस्थितिः किंचिबृहत्तरण देशेन न्यूना द्रष्टव्येति विशेषः, यासु पुनर्नरकपृथिवीषु सम्यक्त्वान्वितोऽप्युत्पद्यते उद्वर्त्तते च तासु सम्यक्त्वस्यापि यथास्वमुत्कृष्टा भवस्थितिः सम्पूर्णापि द्रष्टव्या, तदेवं | मिथ्यात्वस्य सम्यक्त्वस्य चोक्तो नरकगतावुत्कृष्टः कालः,अथ तयोरेव जघन्यं तमभिधित्सुराह-' अंतोमुहुत्तमवर'ति | सवास्वपि नरकपृथ्वीपु मिथ्यात्वस्य सम्यक्त्वस्य चापरा-जघन्या स्थितिः प्रत्येकमन्तर्मुहूर्तमेव भवति, तथाहि-सम्बग्दृष्टि रकः ॥२४॥ कश्चित् प्रतिपय मिथ्यात्वं गतस्तत्र चान्तर्मुहृतं स्थित्वा पुनः सम्यक्त्वमवामोतीत्येवं मिथ्यात्वस्य जघन्यतोऽन्तर्मुहूर्तप्रमाणा स्थितिः, योपि पूर्वभवाद् गृहीतीमथ्यात्वो नरकेवृत्पद्यतेऽन्तर्मुहाच्च परं सम्यक्त्वं लभते तस्यापि नारकस्ययमवा 5555
SR No.600370
Book TitleJiv Samas Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherAgmoday Samiti
Publication Year1927
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy