________________
तरकालः
जीवसमासे 51 मिथ्यादृष्ट यादिः कश्चिदविरतसम्यग्दृष्टित्वं प्रतिपद्यान्तर्मुहात पुनरपि मिथ्यात्वं गत इत्येवमविरतसम्यग्दृष्टेजघन्योऽन्तर्मुहूर्त- 1 प्रमत्तादीहैमीवृत्ती. | मवस्थितिकालः, अविरतादिश्च कश्चिद्यदाऽन्तर्मुहूर्तमेकं देशविरतिं प्रतिपद्य पुनरप्यविरतादित्वमेवाभ्युपगच्छति तदा देशविरतेरपि |
दिनां जघन्येकालद्वारे
जघन्यकालसिद्धिः, अन्तकृत्केवलिनश्च सयोगिकेवलित्वमन्तर्मुहूर्तमेव भवति, ततः परमयोगित्वं प्रतिपद्य निर्वाणप्राप्तेरिति, ॥२२२॥
तदेवं नानाजीवाश्रितकालविचारोक्तगुणाष्टकस्य मध्ये मिथ्यादृष्टिसास्वादनमिश्राविरतदेशविरतित्वसयोगित्वरूपाणां षण्णां गुणानामेकजीवाश्रयोऽपि जघन्येतरभेदभिन्नोऽभिहितः कालः, प्रमत्ताप्रमत्तगुणद्वयस्य तूपरिष्टादेष वक्ष्यते, साम्प्रतं पूर्वमनुक्तानां क्षपकश्रेणिगतापूर्वकरणादिगुणानां नानाजीवाश्रितमेकजीवाश्रितं च जघन्येतरभेदभिन्न कालमाह- खवगाण अजोगी खीणमोहाणं ' ति मोहनीयं कर्म क्षपयन्तीति क्षपकास्ते चापूर्वकरणानिवृत्तिबादरमुक्ष्मसम्परायलक्षणाः क्षपकश्रेण्यन्तर्गतास्त्रयो मन्तव्या, अपूर्वकरणोऽपि हि यद्यपि मोहनीयं न क्षपयति तथापि तत्क्षपणार्हत्वाद्राज्यार्हकुमारो राजवत् क्षपक उच्यते, ततश्चैषां त्रयाणां क्षपकाणां तथाऽयोगिकेवलिनां सर्वथा क्षीणमोहानां च नानाजीवानाश्रित्य एकजीवं च प्रतत्यि पराउत्कृष्टा अपरा तु-जघन्या स्थितिरन्तर्मुहर्तमेव भवति, क्षपकश्रेणिहि सर्वाप्यन्तर्मुहर्तमेव भवति, अतस्तदन्तर्गतानामपूर्वकरणादीनां | क्षीणमोहान्तानां जघन्यत उत्कृष्टतश्चान्तर्मुहूर्तप्रमाणा स्थितिः सुखावबोधैव, अन्तर्मुहूर्तस्य बहुभेदत्वादिति, नानाजीवाश्रयपक्षेऽपि निरन्तरं क्षपकश्रेणिरन्तर्मुहूर्तमेव लभ्यते, परतोऽवश्यमन्तरस्य सम्भवाद् , अतस्तदन्तवृत्तयोऽपूर्वकरणादयोऽप्यन्तर्मुहूर्तमेव भवन्ति, अयोगिकवलिनस्तु शैलेश्यवस्थायां हस्वपंचाक्षरोद्गिरणमात्रकालमेव भवन्ति, शैलेश्यवस्थापि च निरन्तरं भवन्त्यपि | अन्तर्मुहूर्तात् परं न भवत्येव, तस्मादेतेऽप्येकजीवं नानाजीवांश्चाश्रित्य जघन्यत उत्कृष्टतश्चान्तर्मुहूर्तमेव भवन्तीति गाथार्थः॥२२४॥ २२२॥
SENSESUSA