________________
हैमीवृत्ती
जीवसमासे
पर्यन्तेऽवश्यं सम्यक्त्वभावेन मिथ्यात्वस्य नियमेन सपर्यवसितत्वादपर्यवसिततायाः सर्वथैवासम्भवादिति प्ररूपणामात्रमेवेष भंगो-18/ अविरतसबेति, कियन्तं पुनः कालं सादिसपर्यवसितं मिथ्यात्वमवतिष्ठत इत्याशंक्याह-' मुहुत्त परियमणं' ति इह गाथाभंगभ
लम्यक्त्वादिकालद्वारे यादन्तःशब्दानिर्देशेऽपि · भीमो भीमसेन ' इत्यादिन्यायादेवं द्रष्टव्यम्- जघन्यतोऽन्तर्मुहूर्तमुत्कृष्टतस्तु देशोनमर्द्धपुद्गलपरावर्त | P]
काल: ।।२२०॥ यावदेतत् सादिसपर्यसितं मिथ्यात्वमवतिष्ठते, तथाहि-कश्चिदनादिमिथ्याष्टिः सम्यक्त्त्वं लब्ध्वा पुनरपि प्रतिपतितो मिथ्यात्व
मुपसङ्गतस्तत्र चान्तर्मुहूर्त स्थित्वा पुनरपि सम्यक्त्वं लभत इति सादिसपर्यवसितमिथ्यात्वस्य जघन्यपदावस्थितिः, अपरस्तु सम्यक्त्वं प्राप्य पुनर्मिथ्यात्वं गतोऽर्हदाशातनादिपापबहुलतयापापुद्गलपरावर्त्तप्रमाणं कालं यावद्भवं परिभ्रम्य ततोऽवश्य सम्यक्त्वमवामोतीत्युत्कृष्टपदावस्थितिरिति गाथार्थः ॥ २२२ ॥ तदेवं नानाजीवाश्रयकालविचारोक्तानामष्टानां गुणानां मध्ये मिथ्यात्वसास्वादनमिश्रलक्षणगुणत्रयस्यकजावाश्रयोऽपि कालविचारो निर्दिष्टः, इदानीमविरतसम्यग्दर्शनदेशविरातिसयोगित्वरूपस्य गुणत्रयस्य तमभिधित्सुराह
तेत्तीस उयहिनामा साहीया हुंति अजयसम्माणं । देसजइसजोगीण य पुवाणं कोडिदेसूणा ॥ २२३॥
'अयतसम्यग्दृष्टीनाम् ' अविरतसम्यग्दृष्टीनां मध्ये एकमविरतसम्यग्दृष्टिजीवमाश्रित्य त्रयस्त्रिंशत् सागरोपमाणि द साधिकान्युत्कृष्टा स्थितिर्भवति, तथाहि कश्चिदितः ( ग्रन्थानम् ५०००) स्थानादुत्कृष्टस्थितिष्वनुत्तरविमानेघूत्तमः ॥२२०॥ | तत्र चाविरतसम्यग्दृष्टित्वेन त्रयस्त्रिंशत् सागरोपमाणि स्थितः, ततश्युत्वाऽत्राप्यायातो यावदद्यापि विरतिं न लभते तावत्तदा
CARECANSAR