SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ जीवसमासे हैमीवृचौ. कालद्वारे ॥२१९॥ अनाद्यपर्यवसितमित्येको भंगः १, अनादि सपर्यवसितमिति द्वितीयः २ साद्यपर्यवसितमिति तृतीयः ३ सादिसपर्यवसितमिति चतुर्थः ४, एतेषु च तृतीयभंगकं मुक्त्वा शेषेषु त्रिषु मिथ्यात्वमेकजीवमाश्रित्य सम्भवतीति दर्शयन्नाह - मिच्छतमणाईयं अपज्ञ्जबसियं सपज्जबसियं च । साइयसपज्जवसियं मुहुत्त परियहमद्धूणं ॥ २२२॥ 'मिच्छत्त मणाईयं अपज्जवसियं । ति मिध्यात्वं सम्यक्त्वावारकपुद्गलोदयापादितविपर्यस्तरुचिरूपं अभव्यलक्षणस्यैकस्य जीवस्थानाद्य पर्यवसितस्त्ररूपे प्रथमभंगे भवतीत्यर्थः, अनादिकालात्तस्य तत्र सद्भावाद् आगामिकालेऽपि च तदभावासम्भवादिति भावः, ' सपज्जवसियं ' चेति अनादीत्यनुवर्त्तमानं सम्बध्यते, ततश्चानादिसपर्यवसितमिति द्वितीयभंगके मिध्यात्वमेकस्यानादिमिथ्यादृष्टेर्भव्यजीवस्य प्राप्यत इत्यर्थः, अनादिकालात्तस्य तत्रापि सद्भावाद् आगामिकाले तु भव्यत्वान्यथानुपपत्तेरवश्यं तत्र तत्पर्यवसानसम्भवाच्चेति, ' साइय सपज्जवसिय ति इह कश्चिदनादिमिध्यादृष्टिर्भव्यजीवस्तथा भव्यत्वपाकवशात् कदाचित् सम्यक्तत्रं लब्ध्वा यदा केनापि कारणेन पुनरपि प्रतिपतितो मिथ्यात्वं गच्छति तदा तस्य तन्मिथ्यात्वं सादि भवति, सम्यक्त्वलाभादनन्तरं तत्प्राप्तेः सादित्वादिति, प्राप्तसम्यक्त्वस्य च यः पुनरपि मिध्यात्वोपगमः सोऽवश्यं सपर्यवसान एव भवति, उत्कृष्टतोऽप्यपार्द्धपुद्गलपरावर्त्तपर्यन्ते तस्यावश्यं मुक्तिप्राप्तेरित्यस्य सम्बन्धि मिध्यात्वं सपर्यवसितमेव भवति, तदेवं प्रतिपतितसम्यग्दृष्टेर्भव्यस्य यन्मिथ्यात्वं तत् सादिसपर्यवसितमिति चतुर्थभंगे लभ्यत इत्युक्तं भवति, साद्यपर्यवसितमिति तृतीयभंगे तु मिध्यात्वं न सम्भवत्येव प्रतिपतितसम्यग्दृष्टेरेव मिथ्यात्वसादितायाः सम्भवात्तस्य चापापुद्गलपरावर्त्त मिथ्यात्वस्यान्तरं ॥२१९॥
SR No.600370
Book TitleJiv Samas Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherAgmoday Samiti
Publication Year1927
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy