________________
जोवसमासे
हैमीवृत्ती.
कालद्वारे ॥२१८॥
व्यवच्छित्तिमनुभवन्ति, एवं सम्यमिथ्यादृष्टीनामपि भावना कार्या, नवरं जघन्यपदेऽमीषामन्तर्मुहर्तमव्यवच्छेदो वक्तव्यः, सास्वादनअन्तर्मुहूर्तेऽसम्पूर्णे एषां तद्गुणाभावनिषेधात्, सास्वादनसम्यग्दृष्टानां तु समयादप्यूर्व तत्सम्भवादिति गाथार्थः ॥ २२० ॥ तदेवं नानाजीवानाश्रित्य मिथ्यात्वसास्वादनत्वादीनामष्टानां गुणानां कालमानमुक्तम्, साम्प्रतं त्वमीषामेव गुणानामेकैक
| एक जीव
कालः |जीवमाश्रित्य तदभिधित्सुः सास्वादनमिश्रयोस्तावदाह
मिथ्यात्वं | सासायणेगुजीविय एकगसमयाइ जाव छावलिया। सम्मामिच्छट्ठिी अवरुकोसं मुडुत्तंतो ॥ २२१ ॥
'सासायणेगजीविय'चि एको जीवो यत्र काळविशेषे स एकजीविकः सास्वादनस्यैकजीविकः सास्वादनकजीविकः काल उच्यत इति शेषः, कः पुनरसावित्याह-'एकगसमयाइ जाव छावलिय 'ति इदमुक्तं भवति-एकः सास्वादनो जीवः पूर्वगुणस्थानकविचारनिर्दिष्टन्यायेन प्राप्तसास्वादनभावः कश्चित् समयमेकमवतिष्ठते,अन्यस्तु द्वौ समयौ अपरस्तु बीन् समयानेवं यावत् कोऽप्युत्कृष्टतः षडावलिकास्तद्भावे स्थित्वा तत ऊर्ध्वमवश्यं मिथ्यात्वमुपगच्छतीत्येवमेकस्य सास्वादनजीवस्य जघन्यतः समय उत्कृर्षतस्तु पडावलिकामानः कालोभिहितः स्यादिति, सम्यग्मिध्यादृष्टिस्त्वेकः 'अवरुमोसं'ति अपरं-जघन्यतः | उत्कृष्टम्-उत्कर्षतश्च मुहूर्तान्तः-अन्तर्मुहूर्तमेव भवति, इदमत्र हृदयं-एकः सम्यग्मिथ्यादृष्टिजीवो गुणस्थानकवर्णितक्रमण प्राप्तसम्यग्
२१८॥ मिथ्यात्वः तद्भावे जघन्यत उत्कृष्टतश्चान्तर्मुहूर्तमेव भवति, जघन्यपदे तदेवान्तमूहर्त लघुतरं उत्कृष्टपदे तु बृहत्तरमिति विशेष इति गाथार्थः ।। २२१ ॥ अथ मिथ्यात्वकाल उच्यते, तत्र चानाद्यपर्यवसितादिभंगकचतुष्टयप्ररूपणा तावदवगन्तव्या, तद्यथा-2
SUC4X446