SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ मिच्छा अविरयसम्मा देसविरया पमत्तु इयरे य । नाणाजीव पडुच्च उ सब्वे कालं सजागीय ॥ २१९॥ | सास्वादन गुणा-मिथ्यात्वसास्वादनत्वामित्वाविरतिदेशविरत्यादयस्तेषां विमागेन-पार्थक्येन कालोऽभिधानीयः, ते गुणा निराश्रया न जीवसमासे मिश्रयोः कालमान हैमीवृत्तौ सम्भवन्ति अतस्तद्वतां मिथ्यादृष्टयादीनां काल उच्यते, तत्र मिथ्यादृष्टयस्तावनानाजीवान् ' पडुच' प्रतीत्य- आश्रित्य सर्वकालद्वारे कालमव्यवच्छिमा भवन्ति, तेषां नरकमनुष्यदेवगतिषु प्रायः प्रत्येकमसंख्येयानां तिर्यग्गतो त्वनन्तानां सर्वदैवाव्यवच्छेदादिति, एवमविरतसम्यग्दृष्टयादयो देशविरताः प्रमत्ता इतरे च-अप्रमत्ताः सयोगिकेवलिनश्च सर्वकालं भवन्ति, अविरतसम्यग्दृष्टीनां देशविर॥२१७॥ प्रतानां च प्रत्येक क्षेत्रपन्योपमासंख्येयभागप्रदेशराशिप्रमाणानां प्रमत्तसंयतानां तु कोटिसहस्रपृथक्त्वमानानां अप्रमत्तयतीनां पुन: संख्यातानां सयोगिकेवलिनां च कोटिपृथक्त्वप्रमाणानां सर्वदैवाव्यवच्छेदेन प्राक् प्रतिपादितत्वादिति गाथार्थः ॥ २१९ ।। अथ सास्वादनसम्यग्मिध्यादृष्टीना कालमानमाह पल्लासंखियभागो सासणमिस्सा य हुंति उक्कोसं । अविरहिया य जहण्णण एकसमयं मुहुत्तंतो ॥ २२० ।। सास्वादनसम्यक्त्वाः सम्यगमिथ्यादृष्टयश्च नानाजीवानाश्रित्य जघन्यतो यथासंख्य समयमन्तर्मुहूत्तं च, उत्कृष्टतस्तु प्रत्येकमुभयेऽपि क्षेत्रपल्योपमासंख्येयभागप्रमाणं कालं यावदव्यबाच्छनाः पाप्यन्ते, परतोऽवश्यमन्तरसद्भावाद,इदमुक्तं भवति-सास्वादनसम्यग्दृष्टयो जघन्यतः समयमुत्कृष्टतस्तु क्षेत्रपल्योपमासंख्येयभागवर्तिप्रदेशराशेः प्रतिसमयं प्रदेशापहारेण यावान् कालो लगति,स 18 ॥२१७॥ चासंख्येयोत्सर्पिण्यवसर्पिणीलक्षणो मन्तव्यः, एतावन्तं कालं यावदुत्कृष्टतश्चतसृष्वपि गतिष्पविरहिता-निरंतरं भूत्वा ततः परमवश्यं ARCASEANGA
SR No.600370
Book TitleJiv Samas Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherAgmoday Samiti
Publication Year1927
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy