________________
%
जोवसमासे हैमीवृत्ती. कालद्वारे
मिथ्यात्वादः कायस्थितिः
॥२१६॥
ARRRRRRRRRRRC
जहण्णेणं अंतोमुहुत्तं उक्कोसेणं सागरोवमसतपुहुत्तं साइरेंग' ति, 'सयलिंदिय' ति सकलानि-परिपूर्णानि पंचापीन्द्रियाणि येषां ते सकलेन्द्रियाः, पंचेन्द्रिया इत्यर्थः, तेषामुदधिनामानि-सागरोपमानि तेषां सहस्रमभ्यधिकमत्कृष्टा कायस्थितिर्भवति, एतच्च इतः प्रागेकान्तरितगाथायां निर्णीतमेव, यद्येवमिह पुनरपि किमित्यभिधानमिति चेत् सत्यं, किन्तु पूर्व व्याख्यानद्वयं कृतं, तत्र प्राक् पर्याप्तविशेषणव्याख्यानपक्षे पर्याप्तविशेषणानां पंचेंद्रियाणां कायस्थितिरुक्ता, अत्र तु निर्विशेषणानामिति विशेषः, प्राग् निर्विशेषणव्याख्यानपक्षस्त्वस्यानभिप्रेत इव लक्ष्यते, अन्ये तु पर्याप्तपंचेन्द्रियाणां सातिरेकं सागरोपमसहस्रं कायस्थितिरितीह व्याख्यानयंति, तच्चायुक्तमेव, सातिरेकसागरोपमशतपृथक्त्वप्रमाणाया एव कायस्थितेस्तेषां समये प्रतिपादितत्वात् पौनरुक्त्यादिदोषप्रसङ्गाचेति, 'दुगुणंच तसत्तिभवे' ति द्विगुणं च सातिरेकसागरोपमसहस्रं त्रसानां कायस्थितिः, द्विगुणितेन च संख्येयवर्षाधिकसागरोपमसहस्रद्वयमवगन्तव्यम् , यदाह- 'तसकाइए णं भंते ! तसकाइएत्ति कालओ केच्चिरं होइ ?, गोयमा ! जहण्णेण अंतोमुहुत्तं उक्कोसेणं दो सागरोवमसहस्साई संखेज्जवासभहियाई" ति, तदेवमभिहिता उत्कृष्टा कायस्थितिः, साम्प्रतं जघन्यामभिधित्सुराह- 'सेसविभागो मुहत्ततो' ति उत्कृष्टकायस्थितिपक्षाद्योऽसौ शेषः कायस्थितेरेव विभागपक्षः स चेह जघन्यकायस्थितिलक्षण एव विवक्षितो, जघन्योत्कृष्टयोरुक्तयोर्मध्यमस्य तदन्तरालरूपस्य सुखोग्नेयत्वात्, स च जघन्यकायस्थितिलक्षणो | विभागो मुहूर्तान्तः सर्वत्र ज्ञातव्यः, येषु येषु स्थानेषूत्कृष्टा स्थितिः पूर्वमुक्ता तेषु सर्वेषु जघन्याऽन्तर्मुहूर्तप्रमाणासौ मन्तव्येति भाव इति गाथार्थः ॥२१८॥ तदेवं प्रतिपादितो जघन्येतरभेदाभिन्नः कायस्थितिकाल एकैकजीवस्य, नानाजीवाश्रयस्तु कायस्थितिकालः आदावपि न प्रतिज्ञातो नानाजीवानां सदैव स्थितत्वेन तद्विचारस्य किलहासम्भवादिति ॥ साम्प्रतं गुणविभागकालं विवक्षुराह
ARA.
२१६॥