________________
जीवसमासे हैमीवृचौ
कालद्वारे
॥२१४॥
स्वयमेव वक्तव्येति शेषः, संख्यातवर्षसहस्रलक्षणा त्विह न योज्यते, सिद्धांतसंवादाभावादिति, सिद्धान्तोक्तापि त मीषां कार्यस्थितिः कियतीति कथ्यतामिति चेदुच्यते, यदि पर्याप्तापर्याप्तविशेषमकृत्वा सामान्येन द्वीन्द्रियादिविकलेन्द्रियाणां प्रत्येकं कायस्थितिर्वक्तुमिष्यते तदोत्कृष्टा संख्येयकालस्वरूपाऽसौ मन्तव्या यत उक्तम् “ बेईदिए णं भंते ! ' बेईदिएति कालओ केचिरं होइ ?, गोयमा ! जहण्णेणं अंतोमुडुतं उक्कोसेणं संखेज्जकालं, एवं तेईदियचउरिंदियाणवि' अथ प्रस्तुतगाथायामादौ निर्दिष्टं पर्याप्तविशेषणमिहापि योजयित्वा चिन्त्यते तदा पर्याप्तद्वीन्द्रियाणां संख्यातानि वर्षाणि पर्याप्तत्रीन्द्रियाणां संख्यातान्यहोरात्राणि पर्याप्तचतुरिन्द्रियाणां संख्येया मासाः कायस्थितिः, तदुक्तम्- ' बेइंदियपज्जत्तए णं भंते! बेईदियपज्जतए - त्ति कालओ केचिरं होइ ?, गोयमा ! जहण्णेणं अंतोमुहुतं उक्कोसेणं संखेज्जाई वासाई, एवं तेइंदियपज्जतएवि, नवरं उक्कोसेण संखेज्जाई राइंदियाई, एवं चउरिदियपज्जत्तएवि, नवरं उक्कोसेणं संखेज्जवासत्ति, 'सपज्जत्तइंदियाणं ' ति, सह पर्याप्तैः परिपूर्णः पञ्चभिरपीन्द्रियैर्वर्तन्त इति सपर्याप्तेन्द्रियाः पञ्चेन्द्रिया इत्यर्थः, तेषां पर्याप्तापर्याप्तविशेषणरहितानां सामान्येन पञ्चेन्द्रियाणां सातिरेकं सागरोपमसहस्रमुत्कृष्टा काय स्थितिर्वक्तव्या, यदाह- 'पंचिदिए णं भंते ! पंचिदिएत्ति कालओ केचिरं होइ ?, गोयमा ! जहण्णेणं अतोमुहुत्तं उक्कोसेणं सागरोवमसहस्सं साइरेगं' अथात्रापि पर्याप्तविशेषणमनुवर्त्यते तदा पर्याप्तानाममीषां सागरोपमशतपृथक्त्वमुत्कृष्टा कायस्थितिः, तथा चोक्तम्- 'पंचिदियपज्जत्तए णं भंते! पंचिदियपज्जत्तएत्ति कालओ केचिरं होइ ?, गोयमा ! जहणणं अतोमुहुत्तं उकासेणं सागरोवमसयपुदुत्तं ' ति, तस्मादिहाप्यसंख्येयवर्षसहस्रलक्षणामेव कायस्थितिर्न योज्यते, किन्त्वपाकृत्य यथोक्तैव सा वाच्या, अन्ये तु विकलेन्द्रियेषु पञ्चेन्द्रियेषु च पर्याप्तविशेषणमनुवर्त्य सर्वत्र संख्ययवर्ष -
पंचेन्द्रियातिर्यङ्नराणां काय
स्थितिः
॥२१४॥