________________
पर्याप्तवा|दरादीनां
जोवसमासे हैमीवृत्ती कालद्वारे ॥२१२॥
काय
स्थितिः
| कर्मोदयिनो जीवाः सूक्ष्मेष्वेव पुनः पुनरुत्पत्त्या सूक्ष्मत्वमपरिहरन्तोऽसङ्घयानेव लोकान् यावदवतिष्ठन्ते, इदमुक्तं भवति-सूक्ष्म- नामकर्मोदयवर्ती जीवः पुनः पुनः सूक्ष्मत्वेनोत्पद्यमानस्तद्भावमपरित्यजन्नसङ्खयेयेषु लोकाकाशेषु प्रतिसमय प्रदेशापहारेणापहियमाणेषु यावन्त्योऽसङ्घचेया उत्सर्पिण्यवसर्पिण्यो भवन्ति तावतीर्यावदवतिष्ठते, अभ्यधायि च-" मुहुमे णं भंते ! सुहुमेत्ति कालओ केच्चिरं होइ ?, गोयमा! जहण्णणं अंतोमुहुत्तं उक्कोसेणं असंखेज्जं कालं असंखेज्जाओ उस्सप्पिणीओसप्पिणीओ कालओ खेत्तओ असंखज्जा लोग' ति, एवं सुहुमपुढविआउतेउवाउवणस्सईणं सुहुमनिओयाण य भाणियव्वं " ति, आह-ननु पूर्व पृथिव्यतेजोवायुलक्षणानामेव बादरैकेन्द्रियाणां प्रत्येकं सप्ततिसागरोपमकोटीकोटिलक्षणा कायस्थितियाख्याता वनस्पतिस्वरूपाणां तु बादरैकेन्द्रियाणां कियती साऽवगन्तव्येत्यत्राह- 'अंगुलअसंखभागो बायरएगिदियतरूणं' ति बादरैकेन्द्रियाश्च ते तरवश्च बादरैकेन्द्रियतरवस्तेषां बादरैकेन्द्रियतरूणां बादरैकेन्द्रियतरुष्वेवोत्पद्यमानानामंगुलासख्येयभागक्षेत्रखण्डप्रदेशराशिप्रमाणा कायस्थितिर्वक्तव्या, इदमुक्तं भवति-बादरवनस्पतिकायिको जीवः बादरवनस्पतिकायिकेष्वेव पुनः पुनर्भवन्नंगुलासंख्येयभागरूपे
क्षेत्रे प्रतिसमयं प्रदेशापहारेणापहियमाणे यावत्योऽसंख्येया उत्सर्पिण्यवसर्पिण्यो भवन्ति तावन्तं कालमवतिष्ठते, यदिवाऽत्रैकेन्द्रियश्च | तरुश्चैकेन्द्रियतरू बादरौच तो एकेन्द्रियतरू च बादरैकेन्द्रियतरू तयोरित्येवं समासः कार्यः, ततश्चायमर्थः-अविवक्षितपृथिव्यादिभेदस्य 5. सामान्यचिन्तया पूर्वमनुक्तस्य बादरेकेन्द्रियस्य विशेषचिन्तयापि प्रागभिहितस्य बादरवनस्पतिजीवस्य चेयं कायस्थितिरवगन्तव्या, उक्तञ्च 'बादरेणं भंते ! बादरेत्ति कालओ केच्चिर होइ ?, गोयमा ! जहण्णेणं अंतोमुहुत्तं उक्कोसण असंखज्जं कालं असंखज्जाओ उस्सप्पिणिओसप्पिणीओ कालओ खेत्तओ अंगुलस्स असंखेज्जइभागो' त्ति, "बादरवणस्सइकाइए णं चादरवणस्सइकाइएत्ति कालओ
ॐॐॐ
| ॥२१२॥