________________
जीवसमासे हैमवृत
कालद्वारे
॥२११॥
काइएत्ति कालओ केच्चिरं होइ ?, गोयमा ! जहण्णेणं अतोमुहुत उकोसेणं असंखज्जं कालं असंखज्जाउ उस्सप्पिणिओसप्पि - णीओ कालओ, खेत्तओ असंखज्जा लोग " त्ति, एवमप्तेजोवायूनामपि प्रत्येकं स्वकीयस्वकीयकाये उत्पद्यमानानामेतावती स्थितिर्वाच्येति, पूर्वमेकेन्द्रियेषु मध्ये स्वकाये परकाये चोत्पद्यमानानां पृथिव्याद्येकेन्द्रियाणां सामान्येनैकेन्द्रियकालः प्ररूपितः, इदानीं तु निजनिजकाय एवोत्पद्यमानानां तेषां पृथक् पृथिव्यादिकालभेदेन चिन्तित इति पूर्वस्माद् भेद इति गाथार्थः ॥ २१४ ॥ अथ विशेषतः पृथिव्यादीनामेव बादरादिभेदतः कायस्थितिमाह
कम्मट्टिबायराणं सुहुमा अस्संख्या भवे लोगो । अंगुलअसंखभागो बायर एगिंदियतरूणं ॥ २१५ ॥
'कम्मठियायराणं ' ति कर्म्मशब्देनेह मोहनीयं कर्म विवक्षितं अपरं च यद्यपि बादराणामिति सामान्येनोक्तं तथाऽप्ययं विशेषो द्रष्टव्य :- अविवक्षितपर्याप्त पर्याप्तभेदानां बादरपृथिव्यप्तेजोवायूनां प्रत्येकं निजनिजकाये पुनः पुनरुत्पद्यमानानां मोहनीयस्य कर्मणो या उत्कृष्टा सप्ततिः सागरोपमकोटीकेटिलक्षणा स्थितिर्गीयते साऽमीषामुत्कृष्टा कायस्थितिः, इदमुक्तं भवतिबादरपृथ्वीकायिको बादरेष्वेव पृथिवीकायिकेषु पुनः पुनर्वादरपृथ्वी कायरूपतया जायमान उत्कृष्टतः सप्ततिसागरोपमकोटीकोटिप्रमाणं कालमवतिष्ठते, एवमप्तेजोवायूनामपि स्वकीये स्वकीये काये बादरत्वमपरित्यजतां प्रत्येकमिदमेव कालमानं वाच्यमिति, आह च - " बायरपुढविकाइए णं भंते ! बायरपुढविकाइएत्ति कालओ केच्चिरं होइ ?, गोयमा ! जहण्णेणं अंतोमुडुतं उक्कोसेणं सत्तरं सागरोवमकोडाकोडीउ, एवं आउकाइयतेउकाइयवाउकाइएवि " ति 'सुहुमा असंख्या भवे लोग ' त्ति सूक्ष्माः- सूक्ष्मनाम
बादरकायस्थितिः
॥२११॥