SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ जीवसमासे हैमीवृत्तौ कालद्वारे ॥२१०॥ 36-436 एगिंदियहरियंति य पोग्गलपरियद्द्या असंखेज्जा । अड्डाइज्ज निओया असंखलोया पुढविमाई ॥ २१४ ॥ 'हरियति य'त्ति हरितानि - वनस्पतयोऽन्ते - पर्यन्ते अवधौ येषां ते हरितान्ताः - पृथिव्याद्येकेन्द्रियाः, पृथिव्यप्तेजोवायुवनस्पतिलक्षणाः सर्वेऽप्येकेन्द्रिया इत्यर्थः किमित्याह- ' पोग्गले ' त्यादि, पुनः पुनरेतेष्वेवैकेन्द्रियेषूत्पद्यमानास्तद्रूपतामपरित्यजन्तो ऽसंख्येयान् पुद्गलपरावर्त्तान् यावदवतिष्ठन्ते, उक्तंच प्रज्ञापनायाम्- 'एगिंदिए णं भंते! एगिदिएत्ति कालओ केच्चिरं होइ १, गोयमा ! जहणणं अंतोमुहुत्तं उक्कोसेण अणतं कालं, अणंताओ उस्सप्पिणिओसप्पिणीओ कालओ खेत्तओ अनंता लोगा असंखज्जा पोग्गलपरियट्टा, ते ण पोग्गलपरियट्टा आवलियाए असंखेज्जइभागो "त्ति, ननु यदैकेन्द्रियेभ्यः पृथक्कृत्य निगोदवनस्पतीनामेव | केवलानां कार्यस्थितिश्चिन्त्यते तदा कियती सा भवतीत्याह- ' अड्डाइज्जे ' त्यादि, निगोदवनस्पतयः पुनः पुनस्तत्रैवोत्पद्यमानास्तद्भावममुंचन्तोऽर्द्धतृतीयान् पुद्गलपरावर्त्तान् यावदासते, ततः परमन्यत्रोत्पद्यन्ते, उक्तंच " निओए णं भंते ! निओएत्ति कालओ केच्चिरं होइ ?, गोयमा !. जहण्णेणं अंतोमुहुत्तं उक्कोसेणं अनंतं कालं अनंताओ ओसप्पिणीउस्सप्पिणीओ कालओ खेत्तओ अड्डाइज्जा पोग्ग लपीरयट्टात्ति, 'असंखलोगा पुढविमाइ 'त्ति वनस्पतेः पृथग्वक्तव्यत्वात् पृथिव्यादयः पृथिव्यप्तेजोवायव इत्यर्थः, प्रत्येकं निजनिजकायेषु पुनः पुनरुत्पद्यमाना असंख्येयांल्लोकान् यावदवतिष्ठन्ते, इदमुक्तं भवति-पृथिवीकायिकाः पृथिवीकायिकेष्वेव पुनः पुनरुत्पद्यमानाः कालतो संख्येया उत्सपिण्यवसर्पिणीर्यावदवतिष्ठन्ते, क्षेत्रतस्त्वसंख्येयांल्लोकानिति, असंख्येयेषु लोकेषु प्रतिसमयं प्रदेशापहोरणापहियमाणेषु यावत्य उत्सर्पिण्यवसर्पिण्यो भवन्ति तावतीर्यावदवतिष्ठन्त इतीह तात्पर्य्यम् उक्तंच- “ पुढविकाइए णं भंते ! पुढवि पृथ्व्यादीनां कायस्थितिः ॥२१०॥
SR No.600370
Book TitleJiv Samas Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherAgmoday Samiti
Publication Year1927
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy