SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ जीवसमासे हैमीवृत्ती कालद्वारे ॥२०९॥ उक्तंच प्रज्ञापनायाम्-"तिरिक्खजोणिए ण भंते! तिरिक्खजोणिएत्ति कालओ केचिरं होइ?, गोयमा जहणेणं अंतोमुहुत्तं उक्कोसेणं एकेन्द्रिया | अणंतं कालं, अनंताओ उस्सप्पिणीओसप्पिणीओ कालओ त्ति, खेत्तओ अणंता लोगा असंखेज्जा पोग्गलपरियट्टा, ते णं पोग्गलपरियट्टा | सणां कायआवलियाए असंखज्जइभागो' ति, अथ पंचेन्द्रियतिर्यचः पंचेद्रियातियक्ष्वेव मनुष्यास्तु मनुष्येष्वेव पुनः पुनरुत्पद्यमानाः कियतो स्थितिः भवान् कियन्तं च कालं यावदवतिष्ठन्त इत्याशंक्याह- 'पंचिंदिये' त्यादि, भवानां ग्रहणं पुनः पुनरुत्पादनं भवग्रहणं तस्मिन्-भवग्रहणे विचार्यमाणे, भवग्रहणान्याश्रित्य कायस्थितौ चिन्त्यमानायामिति भावः, सप्त वा अष्टौ वा भवान् यावत्ते तत्रैवोत्पद्यमाना उत्कृष्टतस्तिष्ठन्ति, कालतस्तु सप्त पूर्वकोटीस्तदधिकानि च त्रीणि पल्योपमान्युत्कृष्टतस्तिष्ठन्ति , इदमत्र हृदयम्- यदि संख्यातवर्षायुषः पूर्वकोटीस्थितिकाः पचेंद्रियतियचो नराश्च संख्यातवर्षायुष्केषूत्कृष्टतः पूर्वकोटोस्थितिकेष्वेव च यथाक्रमं पंचेंद्रियतिर्यक्षु नरेषु च पुनः पुनरुत्पद्यन्ते तदा सप्तव भवग्रहणान्युत्कृष्टतः प्रत्येकममीषां प्राप्यन्ते, कालतस्तूत्कर्षतः सप्तैव पूर्वकोटयो लभ्यन्ते, | यदि पुनः संख्यातवर्षायुः सम्बन्धिसप्तमभवग्रहणादनन्तरमेते उत्कृष्टस्थितिष्वसंख्यातवर्षायुष्केषु पंचेन्द्रियतिर्यक्षु नरेषु च यथाक्रममेवाष्टमभवे समुत्पद्यन्ते तदाऽनया गत्या संख्यातवर्षायुषामसंख्यातवर्षायुषां च भवमीलने प्रत्येकं पंचेन्द्रियतिरश्चा नराणां चाष्टौ भवग्रहणानि लभ्यन्ते, नवमं तु भवग्रहणं न प्राप्यते, असंख्यातवर्षायुष्कभवादनन्तरमवश्यं देवेषूत्पादादिति, कालतस्तु त्रीणि पल्योपमानि सप्तभिः पूर्वकोटीभिरधिकानि प्राप्यन्ते इति, तस्मात् संख्यातवर्षायुषोऽसंख्यातवर्षायुषश्चापेक्ष्य ॥२०९॥ 'सत्तट्ठभवग्गहणा' इत्यक्तमिति गाथार्थः ॥ २१३ ॥ अथैकेन्द्रियतिरश्चां कायस्थितिमाह ॐॐॐॐ
SR No.600370
Book TitleJiv Samas Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherAgmoday Samiti
Publication Year1927
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy