________________
जीवसमासे हैमीवृत्तौ. कालद्वारे
| एकजीव
॥२०७॥
मेव जन्तूनां जघन्यमायुः प्रतिपादितम् , अथ पूर्वमनुक्तानामुभयस्वरूपमप्यायुः प्रतिपादयन्नाह-'साहारे' ति साधारणा-अनन्त-8 कायिकवनस्पतयस्तेषां सूक्ष्मवादरभेदभिन्नानां तथा 'सव्वसुहमाणं' ति उक्तशेषाणां सर्वेषां पृथिव्यतजोवायुलक्षणानां सूक्ष्माणां वनस्पतीनां तु सूक्ष्माणां साधारणवनस्पतिद्वारेणैवोक्तत्वादिति 'उभयं' ति जघन्योत्कृष्टस्वरूपमुभयमप्यायुरन्तर्मुहू
नानाजीव मेवेत्यत्रापि सम्बध्यते, जघन्यपक्षे तदेवान्तर्मुहूर्त लघुस्वरूपं उत्कृष्टपक्षे तु तदपि बृहत्तरमित्ययमेव जघन्योत्कृष्टयोमेंदो नान्य
भवस्थितिः इति भावः, एवमुत्तरत्रापि 'सव्वापज्जत्तयाणं चे' ति ये पृथिव्यादयोऽपर्याप्ता एव म्रियन्ते न तु पर्याप्तीः सर्वा समर्थयन्ते तेषामपर्याप्तानामप्युभयं-जघन्योत्कृष्टस्वरूपमायुरन्तर्मुहूर्तमेवेति गाथार्थः ॥ २११ ॥ तदेवमेकैकं जीवमधिकृत्य भवायुःकालोभिहितः, साम्प्रतं तदुपसंहारपूर्वकं नानाजीवानाश्रित्य तमाह
एकगजीवाउठिई एसा बहुजीविया उ सव्वद्धं । मणुयअपज्जत्ताणं असंखभागो उ पल्लस्स ॥ २१२ ॥
एषा पूर्वोक्ता ' एक्कगजीवाउठिइ ' ति एकैकस्य रत्नप्रभानारकादिजीवस्यायु:स्थितिरुक्ता, बहुजीवियाउ सव्वद्धं' ति बहवो जीवा विषयो यस्याः सा बहुजीविका स्थितिः, बहुजीवसम्बन्धिनीत्यर्थः, 'सर्वाद्धं ' सर्वकालं द्रष्टव्या, न स कालोऽस्ति यत्र नारकाः सर्वेऽपि मृत्वा अन्यत्रोत्पद्यन्ते, नरकगतिस्तु तैः शून्या भविष्यतीति, एवं तिर्यग्गत्यादिष्वपि वाच्यम् , तस्मानानाजीवानां सर्वकालं स्थितिः, आह-ननु जीवेषु मूलोत्तरभेदभिनंषु सर्वेष्वप्ययं न्यायोऽथ केषुचिदेवेत्या
२०७॥ शस्याह-'मणुये' त्यादि, अपर्याप्सा मनुष्याः कदाचिदेकः कदाचिद् द्वा कदाचित्तु बहवः प्राप्यन्ते तावद्यावदुत्कृष्टतः पल्योपमा