________________
जीवसमासे हैमीवृत्ती कालद्वारे
॥२०५॥
बावीस सत्त तिन्नि य वाससहस्साणि दस य उक्कोसा । पुढविदगानिलपत्तेयतरुसु तेऊ तिरायं च ॥२०७॥
पृथ्व्यादि द्वाविंशत्यादिभिः सह पृथिव्यादीनां यथासंख्येन सम्बन्धः, पृथिव्यायेकेन्द्रियाच सूक्ष्मवादरायनेकभेदभिमाः सिद्धान्ते पठ्यन्ते, तत्रेह बादरैकेन्द्रियाणामेवोत्कृष्टमेव चायुर्वक्तव्यम् , बादराणां तु जघन्य सूक्ष्मादीनां जघन्येतरभेदभिनं चायुरुपरिष्टाद् दीनां वक्ष्यते, तत्र बादराणां पृथिवीकायिकानां 'बावीस' ति द्वाविंशतिः वर्षसहस्राण्युत्कृष्टा भवस्थितिः, 'सत्त' ति यादराप्कायिकानां भवस्थितिः सप्त वर्षसहस्राणि बादरानिलानां त्रीणि वर्षसहस्राणि बादरप्रत्येकतरूणां दश वर्षसहस्राणि बादरतेजःकायिकानां पुनखिरात्रं|त्रीण्यहोरात्राण्युत्कृष्टा भवस्थितिरित्यर्थ इति गाथार्थः ॥ २०७ ॥ अथ द्वीन्द्रियादीनामुत्कृष्टं भवायुःकालमाह
पारस अउणप्पन्नं छप्पिय वासाणि दिवसमासा य । बेइंदियाइयाणं नरतिरियाणं तिपल्लं च ॥ २०८॥
द्वादश वर्षाणि द्वीन्द्रियाणामुत्कृष्टा भवस्थितिरित्यादि यथासंख्येन सम्बन्धः, एकोनपञ्चाशदिवसास्त्रीन्द्रियाणां, षण्मासाश्चतुरिन्द्रियाणां, गर्भजानां नराणां पञ्चेन्द्रियतिरश्चां च त्रीणि पल्योपमान्युत्कृष्टा भवस्थितिः, इह च तिर्यग्गतिभवायुःकालप्ररूपणे प्रस्तुतेऽपि यन्मनुष्याणामुत्कृष्टायुःप्रतिपादनं तत् पल्योपमत्रयोत्कृष्टायुःसाम्याल्लाघवार्थमिति नासम्बद्धभाषित्वमाशङ्कनीयमिति गाथार्थः ॥ २०८ ॥ इह पञ्चेन्द्रियतिरश्चां सामान्येनैवोत्कृष्टमायुः प्रतिपादितं , विशेषचिन्तायां त्वमी सम्मूछेनजलचरादिभेदतो 131 |बहुधा भियन्त इति सम्मूच्र्छजजलस्थलचराणां भवायुःकालमाह
-