________________
जीवसमासे हैमीवृत्तौ . कालद्वारे
॥२०४॥
योः, सत्यं, तयारसा स्वयमेव द्रष्टव्या, तद्यथा - सौधर्मे जघन्या स्थितिरेकं पल्योपमं, ईशाने तु सातिरेकं पल्योपममित्यलं वैमानिकाविस्तरेणेति गाथार्थः ॥ २०५ ॥ अधामीषामेव वैमानिकानामुत्कृष्टां स्थितिमाह-
दो साहि सत्त साहिय दस चउदस सत्तरेव अट्ठारा। एकाहिया य एतो सकाइस सागरुवमाणा ॥ २०६ ॥
सागरेण महत्त्वसामान्यात् समुद्रेणोपमानम्-उपमा येषां ते सागरोपमानाः- कालप्रमाणविशेषाः, पूर्वोक्तस्वरूपाण्यद्धासागरोपमाणीत्यर्थः तानि च द्वयादीनि शक्रादिषु पूर्ववत् सौधर्मादिदेवलोके यथाक्रममुत्कृष्टा स्थितिरिति सामर्थ्याल्लभ्यते, तथाहिसौधर्मदेवलोके द्वे सागरोपमे उत्कृष्टा स्थितिः, ईशाने तु ' साहि ' त्ति, ते एव द्वे सागरोपमे साधिके, सनत्कुमारे तु सप्त सागरोपमाणि, माहेन्द्रे ' साहि 'ति तान्येव सप्त साधिकानि, ब्रह्मलोके दश लांतके चतुर्दश महाशुक्रे सप्तदश सहस्रारे अष्टादश 'एकाहिया एत्तो' त्ति इत ऊर्ध्व प्रतिस्थानमेकैकं सागरोपममधिकं वाच्यम्, तद्यथा - आनते एकोनविंशातिः प्राणते विंशतिः आरणे एकविंशतिः अच्युते द्वाविंशतिरित्येवं ग्रैवेयकविमानप्रस्तटेष्वाप्येकैकं सागरोपमं वर्धयितव्यं यावन्नवमग्रैवेयकप्रस्तटे एकत्रिं शत्रूसागरोपमान्युत्कृष्टा स्थितिरिति, इह च ' एक्काहिया य एत्तो ' इति सामान्योक्तावपि व्याख्यानतो विशेषप्रतिपत्तेर्नवर्मग्रैवेयकपर्यन्तमेवैकाधिकत्वं द्रष्टव्यम्, अनुत्तरविमानेषु तु सागरोपमद्वयेनैवाधिक्यं वाच्यम्, तेषु त्रयस्त्रिंशत्सागरोपमलक्षणाया उत्कृष्टस्थितेरागमेऽनेकस्थानेषु प्रतिपादितत्वाद् तत्रापि सर्वार्थसिद्धे विमाने जघन्यस्थितेरभावात् त्रयस्त्रिंशत्सागरोपमान्यजघन्योत्कृष्टा स्थितिरिति विशेष इति गाथार्थः ॥ २०६ ॥ अथ तिर्यग्गतौ भवायुःकालमभिधित्सुरे केन्द्रियाणां तावदाह
नायुत्कृष्टा भवस्थितिः
॥२०४॥