________________
जीवसमासे हैमीवृत्तौ कालद्वारे
॥२०२॥
पममित्यर्थः, विशेषतः कस्य ज्योतिषः किमायुरिति चेद् ? उच्यते- ज्योतिष्कदेवास्तावच्चन्द्रादित्यग्रहनक्षत्रतारकेभदात् पञ्चविधास्तद्देव्योऽपि पञ्चविधा इति सर्वेऽपि दशविधाः, तत्र चन्द्राणां पल्योपमचतुर्थांशो जघन्यमायुरुत्कृष्टं तु वर्षलक्षाधिकं पल्योपममिति, तद्देवीनां पल्योपमचतुर्थांशो जघन्यमायुरुत्कृष्टं तु पञ्चाशद्वर्षसहस्राधिकं पल्योपमार्द्धमिति २, आदित्यानामपि जघन्यमायुश्चन्द्रवदेव, उत्कृष्टं तु वर्षसहस्राधिकं पल्योपममिति ३, तद्देवीनामपि जघन्यं चन्द्रदेवीवदेव, उत्कृष्टं तु पंचवर्षशताधिकं पल्योपमार्द्धमिति ४, भौमबुद्धादीनां तु शेषग्रहाणां जघन्यं सूर्यवदेव, उत्कृष्टं तु पल्योपमं ५, तद्देवीनामपि जघन्यं सूर्यदेवीसदृशमेव उत्कृष्टं तु पल्योपमार्द्धमिति ६, अश्विन्यादिनक्षत्राणां तु जघन्यं ग्रहतुल्यमेव, उत्कृष्टं तु पल्योपमार्द्धमिति ७, तद्देवीनां तु जघन्यं । ग्रहदेवीसमानमेव, उत्कृष्टं तु साधिकः पल्योपमचतुर्थांश इति ८, तारकदेवानां जघन्यं पल्योपमस्याष्टमांशः, उत्कृष्टं तु पल्योपमचतुर्थांशः ९, तदेवीनां तु जघन्यं पल्योपमस्याष्टभागः, उत्कृष्टं तु साधिकः पल्योपमाष्टभाग एव १०, तदेतद्दशस्वपि स्थानेषु विशेषतो ज्योतिष्काणां जघन्येतरभेदभिन्नमायुः द्रष्टव्यम्, तदुक्तम्- " चंदाइच्चगहाणं नक्खत्ताणं च देविसहियाणं । अट्ठण्हंपि जहण्णं आऊ पलियस्स चउभागो || १ || पलिओ मट्टभाओ तारयदेवाण तह य देवणं । होइ जहणणं आउं एत्तो उक्कोसगं वोच्छं ॥२॥ पलियं च वरिसलक्खं चंदाणं सूरियाण पलियं तु । वरिससहस्सेणऽहियं गहाण पलिओवमं पुण्णं ॥ ३ ॥ नक्खत्ते पलियर्द्ध तारयदेवाण पलियचउभागो । ससिदेवीणं आउं उक्कोस होइ पलियद्धं ॥ ४ ॥ पण्णाससहस्सेहिं वासाणऽहियं तहेव पलियद्धं । पणवाससयन्भहियं रविदेवीणं परं आउं ।। ५ ।। पलिओ मस्स अर्द्ध गहदेवीणं तहेव सविसेसो । पलिओवमचउमागो आउं नक्खत्तदेवांण || ६ || तारयदेवीर्णपि उक्कोसं आउयं विणिद्दि । पलिओ मट्टभाओ अहिओ किंची विसेसेण ॥ ७ ॥ "
ज्योतिष्क भवस्थिति
॥२०२॥