SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ असुराणां भवस्थितिः जीवसमासे हैमीवृत्तौ इह भवनपतयोऽसुरकुमारदिभेदाद्दशधा श्रुतसागरे पठ्यन्ते, तद्यथा-" असुरा नाग सुवण्णा विज्जू अग्गी य दीव उदही या। कालद्वारे दिसि वाउ तथा थणिया दसभेया हुंति भवणवई ॥१॥" ति, एते चासुरकुमारादयो दशापि पुनाबिभेदाः-मेरुगिरेर्दक्षिणदिग्वर्तिनः | उत्तरदिग्वर्तिनश्चः तत्र 'असुरेसु सारं' ति मेरुदक्षिणदिग्वतिष्वसुरकुमारेषत्कृष्टा स्थितिरेकं सागरोपममित्यर्थः, 'अहियं' ति ॥२०१॥ उत्तरदिग्वर्तिषु त्वसुरकुमारेषु तदेव सागरोपमं किञ्चिदधिकमुत्कृष्टा स्थितिख़तव्यति, नागकुमारादीनामादिशब्दात् सुवर्णकुमार | विद्युत्कुमारादीनां दक्षिणदिग्वर्तिनां सार्द्धपल्योपममुत्कृष्टा स्थितिः, उत्तरदिग्वर्तिनां तु तेषामेव नागकुमारादीनां देशोनपल्योपमद्वय| मुत्कृष्टा स्थितिर्भवति, उत्तरदिग्वतिनो ह्येते स्वभावादेव शुभाश्चिरायुषश्च भवन्ति, दक्षिणदिग्वर्तिनस्तु तद्विपरीता इति, व्यन्तरसुराणां तु पिशाचभूतयक्षादिभेदतोऽष्टविधानामपि पल्योपममेवोत्कृष्टा स्थितिर्भवति, दक्षिणदिग्वय॑सुरकुमारप्रभुचमरेन्द्रदेवीनां तु | सार्द्ध पल्यापमत्रयमुत्कृष्टमायुः, उत्तरदिगसुरकुमाराधिपवलीन्द्रदेवानां तूत्कृष्टमायुः सार्दानि चत्वारि पल्योपमानि, नागकुमारादि|| नवनिकायदेवीनां तूत्तरदिग्वर्तिनीनां देशोनं पल्योपममुत्कृष्टमायुः, दक्षिणदिग्वर्तिनीनां तु तासामेव देवीनां व्यन्तरीणां चार्द्धपल्यो पममुत्कृष्टमायुरित्येतत् स्वयमेव द्रष्टव्यम्, जघन्यं तु सर्वत्र प्रागभिहितं दशवर्षसहस्ररूपंमेवेति गाथार्थः ।।२०४॥ अथ ज्योतिष्कदेवानामायुःप्रमाणमाह पल्लट्ठभाग पन्नं च साहियं जोइसे जहणियर । हेडिल्लु कोसठिई सकाईणं जहण्णा सा ॥ २०५॥ सामान्येन ज्योतिषां पल्योपमस्याष्टमो भागो जघन्यमायुः,इतरत् पुनः उत्कृष्टं तेषामेव साधिकं पल्योपममायुः,वर्षलक्षाधिकं पल्यो SHRASIRSASS २०१॥
SR No.600370
Book TitleJiv Samas Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherAgmoday Samiti
Publication Year1927
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy