________________
जविसमासे हैमीवृत्ती. कालद्वारे ॥२०॥
नारकादिषु जघन्या भवस्थिति
RECENE
अर्थतास्वेव सप्तसु नरकपृथिवीषु नारकायुषो जघन्यां स्थितिमाहपढमादि जमुक्कोसं बीयादिसु सा जहणिया होइ । घम्माए भवणवंतर वाससहस्सा दस जहण्णा ॥२०३।।।
प्रथमादिपृथिवीषु यदुत्कृष्टमायुः प्रतिपादितं द्वितीयादिषु पृथिवीषु सैव जघन्या स्थितिर्भवतीति मन्तव्यम् , तथाहिप्रथमपृथिव्यां या सागरोपमलक्षणा उत्कृष्टा स्थितिरुक्ता द्वितीयपीथव्यां सैव जघन्या स्थितिः, द्वितीयपृथिव्यां तु या सागरोपमत्रयलक्षणा उत्कृष्टा स्थितिरभिहिता तृतीयपृथिव्यां सैव जघन्या स्थितिः, एवं तावन्नेयं यावत् षष्ठपृथिव्यां या द्वाविंशतिसागरोपमलक्षणा उत्कृष्टा स्थितिरावेदिता सैव सप्तमपृथिव्यां जघन्या स्थितिर्वेदितव्या, नन्वेवं सति धर्माभिधानायां पृथमपृथिव्यामद्यापि जघन्या स्थितिर्न निवेदिता भवति, अतः सा निवेद्यतामित्याशंक्य प्रथमपृथिवीनारकाणां तत्प्रसंगतो जघन्यस्थित्या समानत्वाद् भुवनपतिव्यन्तराणां च जघन्यां स्थितिमभिधित्सुराह-' घम्माए' इत्यादि, धर्माभिधानप्रथमपृथ्वीनारकाणां भवनपतिव्यन्तराणां च दश वर्षसहस्राणि जघन्या स्थितिर्विज्ञेयेति गाथार्थः ।।२०३॥ ननु यदि भवनपतिव्यन्तराणां दश वर्षसहस्राणि जघन्या स्थितिस्तदा उत्कृष्टा तेषां कियत्प्रमाणाऽसौ भवतीत्याशङ्कथासुरकुमारादिभवनपतीनां व्यन्तराणां चोत्कृष्टां स्थितिमाह
असुरेमु सारमाहियं सट्टे पल्लं दुवे य देसूणा । नागाईणुकोसा पल्लो पुण बंतरसुराण ॥ २०४॥
॥२०॥