SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ जीवसमासे हैमीवृत्ती कालद्वारे ॥१९९॥ 54: Ashot 'कालो' त्ति कालः पूर्वोक्तशब्दार्थः समयावलिकादिरूपस्तावदिह प्ररूपणीय इति शेषः, स च प्राक् प्ररूपित एवेति नेह प्ररूप्यते, सामान्यन कालप्ररूपणानन्तरं च भवायुःकालं कायस्थितिकालं गुणविभागकालं च वक्ष्यामीति, द्वितीयान्तः कालशब्दः |नारकाणां सर्वत्र सम्बध्यते, तत्र नारकादिभवानामन्यतरो विवक्षित एको भवः-एकं जन्मस्थानं तत्र भवे आयुभवायुस्तद्विषयः कालो दशवर्ष-द्रमवार सहस्रादिकस्तमेकजीवं नानाजीवांश्चाश्रित्य वक्ष्यामीति सम्बन्धः, तथा 'कायः' पृथिव्यप्कायादिस्तत्रैकैकस्मिन् काये मृत्वा पुनः पुनरुत्पद्यमानस्य तद्भावमपरित्यजतो जीवस्य स्थितिः कायस्थितिस्तद्विषयः कालः कायस्थितिकालोऽसंख्येयोत्सर्पिण्यवसर्पिण्यादिकस्तं । च वक्ष्यामीति सण्टंकः, तथा गुणाः-मिथ्यादृष्टिसास्वादनादिगुणस्थानलक्षणाश्चतुर्दश तेषां विभागेन-पार्थक्येन तद्भावापरित्यागविषयः कालो गुणविभागकालः तं च एकजीवं नानाजीवाश्चाश्रित्य वक्ष्यामीति योगः, तदेवं भवायुष्कादिविषयभेदा त्रिविधः* कालोऽत्र वक्तव्य इति गाथार्थः ॥ २०१ ॥ तत्र क्रमेण सप्तसु नरकपृथ्वीष्वेकैकनारकस्यककभवायुलक्षण कालं तावद्वक्तुमाह एगं च तिणि सत्त य दस सत्तरसेव हुँति बावीसा । तेत्तीस उयहिनामा पुढवीसु ठिई कमुक्कोसा ।।२०२॥ | महत्त्वसाम्यादुदाधिनामशब्देन सागरोपममिहाभिप्रेतं, ततश्चैकैकनारकस्यै ककस्मिन् भवे रत्नप्रभादिषु सप्तसु पृथ्वीषु क्रमणोत्कृष्टा स्थितिरियं प्रतिपत्तव्या, तद्यथा-रत्नप्रभायामेकस्य नारकस्यैकस्मिन् भवे एकं सागरोपममुत्कृष्टा स्थितिः, शर्करप्रभायां त्रीणि वालुकाप्रभायां सप्त पङ्कप्रभायां दश धूमप्रभायां सप्तदश तमःप्रभायां द्वाविंशतिः सागरोपमाणि एकस्य नारकस्यैकत्र ॥१९९॥ भवे उत्कृष्टा स्थितिः, सप्तमनरकपीथव्यामकस्य नारकस्यैकत्र भवे त्रयस्त्रिंशत् सागरोपमान्युत्कृष्टा स्थितिरिति गाथार्थः ॥२०२।।
SR No.600370
Book TitleJiv Samas Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherAgmoday Samiti
Publication Year1927
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy