SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ वादपर्या जीवसमासे हैमीवृत्ती कालद्वारे केन्द्रिय स्पर्शना ॥१९७॥ भिस्तिर्यमनुष्यैस्तदवस्थायां मरणासम्भवेनान्यत्रोत्पत्त्यभावात् स्वजन्मस्थानरूपो लोकासंख्येयभाग एव स्पृष्टः ॥ तदेवं तिरश्वां सामान्येन स्पर्शना प्रोक्ता, साम्प्रतं तेषामेव बादरैकेन्द्रियादिभेदभिन्नानां विशेषतस्तामभिधित्सुरिदमाह- 'विगलिंदीहिं' ति 'सव्वजगं' ति द्वित्रिचतुरिन्द्रियलक्षणैर्विकलेन्द्रियैरुत्पादसमुद्घातावस्थयोः सर्व जगत्-सर्वोऽपि लोको व्याप्तः प्राप्यते इत्यर्थः, एष तावत् प्रस्तुतग्रन्थाभिप्रायः, प्रज्ञापनायां तूत्पादसमुद्घातस्वस्थानोंकासंख्येयभागवर्तिन एव विकलेंद्रियाः सर्वेऽप्युक्तास्तदेव च युक्तिसङ्गतं बुध्यते, स्वल्पत्वादमीषां, तत्त्वं तु बहुश्रुता एव विदन्तीति गाथार्थः ॥ १९८ ॥ उक्तमेवार्थ साविशेषमाभिधित्सुराह___ बायरपज्जत्तावि य सयला वियला य समुहउववाए । सव्वं फोसंति जगं अह एवं फोसणाणुगमो ॥ १९९। पृथिव्यादिबादरपर्याप्तकीन्द्रयाः सम्पूर्णपंचेन्द्रियतिर्यग्लक्षणा सकलाः द्वित्रिचतुरिन्द्रियस्वरूपा विकलाश्च ‘समुह'. त्ति समुद्घातावस्थायां ' उववाए' त्ति विग्रहगतिलक्षणोत्पादावस्थायां च ' सर्व जगत् ' सर्व लोकं स्पृशन्तीत्येषोऽपि प्रस्तुतग्रन्थाभिप्राय एव, प्रज्ञापनाऽभिप्रायतस्तु तिर्यंचो बादरपर्याप्तपृथिव्यप्तेजःकायिकाः पंचेन्द्रियाः विकलेन्द्रियाश्च सर्वेऽपि स्वल्पत्वादुत्पादसमुद्घातस्वस्थानः प्रत्येकं लोकासंख्येयभाग एवं प्राप्यन्त इति, अस्यां च गाथायां सूक्ष्मैकेन्द्रिया नोक्ताः, सर्वलोकव्यापित्वेन तेषां प्रागेवोक्तत्वाद्,अपर्याप्तबादरैकेन्द्रियास्त्वस्य ग्रन्थस्याभिप्रायेण स्वस्थानेनापि सर्वलोके व्यापिन एवेति तेपीह नोपात्ताः, प्रज्ञापनाभिप्रायतस्तु बादरापर्याप्तैकेन्द्रिया अप्युत्पादसमुद्घाताभ्यामेव लोकं व्याप्नुवन्ति, न स्वस्थानेन,पयों| केन्द्रियनिश्रयैव तेषामुत्पत्तेः, विकलेन्द्रियाणां सर्वलोकव्यापित्वमनन्तरगाथापर्यन्ते सामान्येनाभिहितं, अत्रोत्पादसमुद्घातावस्था 4595 ॥१९७||
SR No.600370
Book TitleJiv Samas Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherAgmoday Samiti
Publication Year1927
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy