________________
गतिभेदाः नारकपृथ्वीमेदाः गा ११-१२
भाद्र
प्रयोगिनो द्विविधा भवन्ति, तद्यथा-सभवा प्रभवाय, तत्र सह भवेन-संसारण तन्त इति संभवाः-शैलेश्यवस्थाभाविनः समुच्छिन्नक्रियाप्रतिपातिध्यानध्यातारो | हस्वपञ्चाक्षरोद्रिणकालमानसंसारा इत्यर्थः, संसारकारणकममलकलकलेशेनापि विप्रयुक्तत्वेन सिद्धत्वान्न विद्यते भवः-संसारो येषां तेऽभवाः, सिद्धा इत्यर्थः, तत्र सभवानाम# भवानां च स्वस्पं सूत्रकारः स्वयमेवाह-निरुद्ध जोगी य इह सभव ' त्ति चकारो भिन्नक्रमे, स चाभवाश्चेत्यत्र योजित एव, शेषस्य त्वरमर्थः-निरुद्धमनोवाकाययोगा
इह संसारे सावशेषभवोपग्राहिकर्मतयाऽद्यापि ये योगिनो वर्तते ते स्भवा इत्युच्यन्ते, अभवाः पुन. सिधा ये सर्वभवप्रपञ्चेन विमुक्ताः, तदनेनैतदुक्तं भवति-योगाभावस्योभयत्रापि तुल्यत्वादयोगिशब्दवाच्यता सिद्धानामप्यविरुदैवेति तेषामपि सङ्ग्रहो वोपपद्यत एवेति गाथार्थः ॥ १०॥ अथैते चतुर्दश जीवसमासा गत्यादिमार्गणास्थानेषु चिन्तयिष्यन्तेऽतो गतिद्वारनिरूपणार्थं तावदाह
निरयगई तिरि मणुया देवगई चेव होइ सिद्धिगई। नेरइया उण नेया सत्तविहा पुढविभेएण ॥११॥ - तत्र गम्यते स्वकर्मरज्ज्वाकृष्टजन्तुभिर्याऽसौ गतिः, सा च निस्यगत्यादिभेदास्तुओं, तनायं-इष्टफलं देवं, निर्गतमयं येभ्यस्ते निरयाः-सीमन्तकादयस्त एव गम्यमानत्वाद्गतिनिरयगतिः, इहाद्यन्तयोर्गतिशब्दस्योपादानान्मध्येऽप्यसौ द्रष्टव्यः, ततश्च तिरश्चा-एकेन्द्रियादीनां गतिस्तियग्गतिः, मनुष्याणां गतिमनुष्टगतिः, देवानां गतिर्देवगतिः, सिद्धिगतिस्तु कर्मजन्या शारूपरिभाषिता न भवति, केवलं गम्यत इति गतिरिति व्युत्पत्तिसाम्यमानादिहोपात्ता, इह च गतेस्तद्वतां चाभेदविवक्षया गतौ प्रस्तुतायामपि गतिमतो नारकान् भेदतो निरूपयन्नाह–'नेरझ्या उणे ' त्यादि, गतिस्तावदित्थं भेदतः पञ्चधा प्रक्ता, नारकाः पुनर्भेदतश्चिन्त्यमानाः पृथिवीभेदात्सप्सविधा ज्ञयाः, रत्नप्रभादिपृथ्वीनां सप्तविधत्वात्तदाधारा नारका अपि सविधा इति भाव इति गाथार्थः ॥ ११॥ अथ किनामिकाः पुनस्ताः पृथिव्यो यद्भेदात् नारकाः सप्तविधाः ? इत्याशय पृथ्वीनां नामान्याह
. धम्मा वंसा सेला होइ तहा अंजणा य रिट्ठा य। मघवत्ति माघत्ति य पुढवीणं नामधेयाई ।।१२।।