________________
जीवसमासे हमीवृत्ती क्षेत्रद्वारे
॥१९२॥
CASSACRECI
| सामान्यतः सम्यग्मिथ्यादृष्टिजीवा अष्टरज्ज्वात्मकं क्षेत्रं स्पृशन्ति, अथवा सम्यग्मिथ्यादृष्टिः सहस्रारदेवलोकामरः पूर्वोक्त- प्रमचाकारणात्तृतीयनरकपृथ्वीं गच्छन् सप्त रज्जूः स्पृशतीति, स एव च सहस्रारदेवोऽच्युतदेवेन स्नेहात्तत्र नीयमानो रज्जुमेकामन्यामपि दा
दीनां स्पृशतीति सर्वा अप्यष्ट रज्जव इति, आनतादिदेवास्त्वल्पस्नेहादिभावात् सांगतिकादिप्रयोजनेनापि नरकं न गच्छन्तीत्यत्र
स्पशेना सहस्रारान्तग्रहण, सम्यग्मिथ्यादृष्टयश्च तद्भावे वर्तमानाः कालं न कुर्वन्तीत्यत्र भवस्थानामेव तेषां स्पर्शना चिन्तितेति भावनीयम् , अविरतसम्यग्दृष्टयोऽप्यष्ट रज्जूः स्पृशन्ति, भावना विह सम्यग्मिथ्यादृष्टिवदेवेति प्रस्तुतगाथाभिप्रायो लक्ष्यते, चिरन्तनटीकाकृतापीत्थमतिदेश एव दत्तो, भावनिका तु तथाविधा न काचित् कृता, प्रज्ञप्त्याद्यभिप्रायेण पुनरस्य द्वादशानामपि रज्जूनां स्पर्शना लभ्यते, तथाहि-अनुत्तरसुरस्य तत्रोत्पद्यमानस्य तत आगच्छतो वा सप्तरज्जुस्पर्शना तावदुक्तैव, अपरं च नरतिरश्चामन्यतरोऽविरतसम्यग्दृष्टिः पूर्वबद्धायुः क्षायोपशमिकसम्यक्त्वेन गृहीतेनापि प्रज्ञप्याद्यभिप्रायेण षष्ठनरकपृथिव्यां नारकत्वेनोत्पद्यते, ततोऽपि वा नारकः क्षायोपशमिकसम्यक्त्ववानत्रागत्य मनुष्येषूत्पद्यत इत्येवमविरतसम्यग्दृष्टिः षष्टनरकपृथिव्या गच्छन्नागच्छन् वा पञ्च रज्जूः स्पृशतीति सर्वा अपि द्वादश रज्जव इति, सप्तमपृथिव्यां पुनः सम्यक्त्वसहितस्य गमनमागमनं वा प्रज्ञप्त्यामपि निषिद्धमिति षष्ठनरकपृथ्वीग्रहणमित्यलं विस्तरेणेति । देशविरतस्तु मनुष्य इतः स्थानान्मृत्वाऽच्युतदेवलोक उत्पद्यमानः षड् रज्जू : स्पृशति, न च वक्तव्यं कथं तत्रोत्पद्यमानो देवत्वादविरतसम्यग्दृष्टिरेवायं न देशविरत इति सत्यम् , यो हि ऋजुगत्या एकेन समयेन तत्रोत्पद्यते तस्य पूर्वभवायुः क्षीयमाणं न क्षीणं पूर्वभवशरीरमपि च मुच्यमानममुक्तमिति प्राग्भवायुःशरीरसम्पन्नत्वादृजुगत्यां देशविरत एवायमित्यदोषः, तदेवं च 'पुट्ठा चउदसभागा बारसे' त्यादिको ग्रन्थो ||॥१९२॥
CASSACROCOGE0
CIA