________________
*
जीवसमासे हैमीवृत्ती क्षेत्रद्वारे
SEX
॥१९॥
STORI
प्राप्यते, सास्वादनादीनां द्वादशादिभिः सह यथासंख्येन सम्बन्धः, स चेत्थं द्रष्टव्यः-'पुट्ठा चउदस भागा बारसेति चतुर्दशानां पूरणश्चतुर्दशः भागः-सर्वस्यापि लोकस्यांशः, ततश्च सर्वस्यापि लोकस्य चतुर्दशरज्वात्मकत्वात् तच्चतुर्दशभाग एका रज्जुरुच्यते, ता
मिथ्याहद्वादश पुनश्चतुर्दशभागा द्वादश रज्जवोऽभिधीयन्ते, अतः सामान्येन सास्वादनसम्यग्दृष्टिदिश रज्जूः स्पृशतीत्यर्थः, लोकस्य
गादीनां
स्पर्शना | द्वादशरज्जुप्रमाण क्षेत्रं स्पृशतीति यावदिति, तथाहि-षष्ठपृथिवीतो नारकः सास्वादनसम्यक्त्वसमन्वितो यदात्र तिर्यग्लोके 51 समुत्पद्यते तदा पञ्चरज्जुप्रमाणं क्षेत्रं स्पृष्टं भवति, यदा पुनरिहत्य एव तियग्मनुष्ययोरन्यतरः सास्वादनसम्यक्त्वान्वित है। उपरि लोकान्ते कार्मग्रन्थिकमतेन ईपत्प्राग्भारपृथिव्यादित्वनोत्पद्यते तदा तस्य सप्तरज्जुप्रमाणक्षेत्रस्पर्शो लभ्यत इति, WI इत्थमेक सास्वादनगुणस्थानमाश्रित्य द्वादशानां लोकचतुर्दशांशानां स्पर्शना प्राप्यते, न त्वेकं सास्वादनजीवमाधिकृत्य, एवम
न्यत्रापि यथासम्भवमेकगुणस्थानापेक्षयैव स्पर्शना द्रष्टव्या, प्रस्तुतसूत्राभिप्रायाच्चाधोलोकपृथ्वीकायिकादिषु अतः स्थानात् सास्वादनो न गच्छत्येव, अन्यथा तिर्यग्लोकात्तस्योर्ध्वमधश्चोत्पद्यमानस्य त्रयोदशरज्जुस्पर्शोऽपि लभ्येत. सप्तमपृथ्वीनारकश्च सास्वादनभावं परित्यज्यैवात्रोत्पद्यत इति षष्टनरकपृथिवीनारक एवेह निर्दिष्टः, मिश्रः-सम्यग्मिथ्यादृष्टिगुणस्थानकजीवैरष्टी लोकस्य चतुर्दशांशाः स्पृष्टाः प्राप्यन्ते, लोकस्यैतेऽष्ट रज्जूः स्पृशन्तीत्यर्थः, कथमित्यत्रोच्यते, यदा सम्यग्मिथ्यादृष्टिर्भवनवास्यादिदेवः पूर्वसांगतिकेनाच्युतदेवलोकदेवेन स्नेहात्तत्र नीयते तदा पड्रज्जुसंस्पर्शः 'छ अच्चुए' इति वचनात् , तथा सम्यग्मिथ्यादृष्टयः सहस्रारान्ता देवाः पूर्वसांगतिकस्य नारकस्य वेदनोपशमनार्थ पूर्ववैरिकस्य वा वेदनोदीरणार्थं यदा तृतीयनरकपृथिव्यां गच्छन्ति ।
४ ॥१९१॥ तदा भवनवासिदेवेभ्योऽधस्ताद्रज्जुद्वयेन तृतीयनरकपृथिव्याः सद्भावात् पूर्वोक्तषड्रज्जुभ्य उपर्यधिक रज्जुद्वयं लभ्यत इति
HERS RECORESANSAROSAGAR
ES