SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ जीवसमासे 8 मिथ्याहज्ञानदर्शनचारित्रवतामेव ततसम्भवादिति, सुरेषु संज्ञिपंचन्द्रियतिया चाद्याः पंच समुद्घाता भवन्ति, तेजःसमुद्घातलब्धरपि तेषु हैमीवृत्तो. गादीनां सम्भवाद्, आहारककवालसमुद्घाताभावे तु हेतुः पूर्वोक्त एव, उक्तशेषषु पृथिव्यप्तेजोबादरपर्याप्तवर्जवायुवनस्पतिषु द्वित्रिचतुरिन्द्रियाक्षेत्रद्वारे स्पर्शना संज्ञिपंचेन्द्रियतियग्लक्षणेषु च जीवेष्वाद्यसमुद्घातत्रिकमेव भवति, वैक्रियसमुद्घातादिलब्धिशून्यत्वादेषामिति गाथार्थः ॥१९॥ ॥१९०॥ तदेवं निरूपिताः समुद्घातानां स्वामिनोऽथ तेषामेव कालविशेषनिरूपणार्थमाह दंड कवाडे रुयए लोए चउरो य पडिनियत्तते । केवलिय अठ्ठसमए भिन्नमुहुन्नं भवे सेसा ॥ १९४ ॥ पूर्वोक्तन्यायेन प्रथमे समये दण्डो, द्वितीये कपाटः, तृतीये रुचको मन्था इत्यर्थः, चतुर्थे तु लोकः सर्वोऽप्यापूर्यत इत्येवं चत्वारः समयाः, प्रतिनिवर्तमानेऽपि समुद्घाते पूर्वोक्तयुक्त्यैव चत्वार एव समया भवन्तीत्येवं केवलिसमुद्घातोऽष्टसामयिका, शेषास्तु समुद्घाताः सर्वेऽप्यन्तौहूर्तिका इत्येतत् सर्व प्रागेव भावितार्थमिति गाथार्थः ॥ १९४ ॥ तदेवं प्राग् निरूपितं लोकादिकं ६ स्पर्शनीयं क्षेत्रं, ततः स्पर्शकानामवस्थाविशेषश्च समुद्घातरूपो निदर्शितः, स्पर्शकास्तु मिथ्यादृष्टिसास्वादनादयश्चतुर्दश जीवस-14 *मासाः प्रस्तुता एव, अतस्तेषां मध्ये कः कियत् क्षेत्रं स्पृशतीत्याह ॥१९॥ मिच्छेहिं सव्वलोओ सासणमिस्सेहिं अजयदेसहिं । पुट्ठा चउदसभागा यारस अट्ठष्ट छच्चेव ।। १९५ ॥ मिथ्यादृष्टिभिः सूक्ष्मैकेन्द्रियादिभिः यथास्वं स्वरूपस्थैः समुद्घातगतैश्च प्रत्येक प्रागुक्तयुक्त्या सर्वोऽपि लोकः सर्वदेव स्पृष्टः
SR No.600370
Book TitleJiv Samas Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherAgmoday Samiti
Publication Year1927
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy