________________
***
समुद्घातस्वामिनः तत्कालश्च
है बहु पूरितं भवति, मथ्यन्तराणि चापूरितानि प्राप्यन्ते, जीवप्रदेशानामनुश्रेणिगमनादिति, चतुर्थसमये तान्यपि सह लोकनिष्
कुटैः पूरयति, तथा च समस्तोऽपि लोकः पूरितो भवति, ननु लोकमध्ये स्थितो यदा केवली समुद्घातं करोति तदा तृतीयेऽपि समये हैमीवृत्ती
लोकः पूर्यत एव, किं चतुर्थसमयेऽन्तरपूरणेनेति, नैतदेवं, लोकस्य मध्यं हि मेरुमध्य एव सम्भवति, तत्र च प्रायः समुद्घातर्कतुः क्षेत्रद्वारे
| केवलिनोऽसम्भव एव, अन्यत्र च समुद्घातं कुर्वतस्तस्य तृतीयसमयेऽन्तराण्युद्धरन्त्येवेति परिभावनीयम्, तदनन्तरं च पंचमसमये ॥१८॥ यथोक्तक्रमात् प्रतिलोमं मथ्यन्तराणि संहरति, प्रसूतान् जीवप्रदेशान् सङ्कोचयतीत्यर्थः, षष्ठे समये मन्थानमुपसंह- रति,
| सप्तमे तु समये कपाटं सङ्कोचयति, अष्टमे तु समये दण्डमपि संहृत्य शरीरस्थ एव भवति, तदेवमष्टसामयिकः केवलिसमु| घातः, पूर्वोक्तास्तु षडपि समुद्घाता अन्तहिर्तिका एव, एतेषु चाष्टस्वपि समयेषु केवली प्रभूतान् वेदनीयादिकर्मपुद्गलान् शातयतीति ७ आह-नन्ववगताः स्वरूपतः सप्ताप्येते समुद्घाताः, केवलममी सर्वेऽपि केषां जन्तूनां प्राप्यन्ते इत्याशङ्कयाह-सत्त मणुएसु नायव्य ' ति सप्ताप्येते पूर्वोक्ताः समुद्घाताः, मनुष्येषु-मनुष्यजातौ नानाजीवानाश्रित्य प्राप्यन्त इत्यर्थ इति गाथार्थः ॥ १९२ ।। शेषजीवानां मध्ये तर्हि कस्य कियन्तः समुद्घाताः प्राप्यन्त इत्याशंक्याह
पज्जत्तबायरानिल नेरइएमु य हवंति चत्तारि । पंचसु तिरियपंचिदिएसु सेसेसु तिगमेव ॥ १९३ ॥
वैक्रियकरणलब्धिमतां पर्याप्तवादरवायूनां नारकाणां चाद्याश्चत्वारः समुद्घाता भवंति, तेजःसमुद्घातस्त्वमीषां न भवति, तल्लब्धेरेतेष्वभावाद्, आहारकसमुद्घातोऽपि न भवति, चतुर्दशपूर्व विदामेव तत्सम्भवात्, केवलिसमुद्घातोऽप्येषु न भवति, क्षायिक
*+-99%**
%*%
18॥१८९॥
C4999;