SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ जीवसमासे स्कन्धाधन्तरालानि चापूर्यायामता विस्तरतश्च शरीरमात्र क्षेत्रमभिव्याप्यान्तर्मुहत यावत्तिष्ठति, तस्मिश्चान्तर्मुहूर्ते प्रभूतासातहैमीवृत्तौ वेदनीयकर्मपुद्गलशातं करोति, ततः समुद्घातानिवृत्य स्वरूपस्थो भवति १,कषायैः-क्रोधादिभिर्हेतुभूतैः समुद्घातः कषायसमुद्घातः, समुद्घाताः द्र तीवकषायोदयाकुलितो हि प्राणी स्वप्रदेशाननन्तानन्तकर्मस्कन्धवेष्टितान् बहिः प्रक्षिपति, तैश्च प्रदेशैरुदरास्यकण्ठादिशीषराणित कर्णस्कन्धाधन्तरालानि च पूरयित्वा आयामविस्तराभ्यां देहमानं क्षेत्रमभिव्याप्यान्तर्मुहूर्त यावत्तिष्ठति, तत्र चान्तर्मुहूर्ते प्रभूत॥१८७॥ कषायमोहनीयकर्मपुद्गलशातं विदधाति, समुद्घातानिवृत्त्य स्वरूपस्थो जायत इति २, मरणमेव प्राणिनामन्तकारित्वादन्तो मरणांतः | तत्र भवो मारणान्तिकः स चासौ समुद्घातश्च मारणान्तिकसमुद्घातः, मरणसमयेऽन्तर्मुहूर्त्तशेषे स्वायुषि केचिदसुमन्तोऽमुं कुर्वन्तीति मारणान्तिक उच्यते, अयं चेत्थं द्रष्टव्यस्तद्यथा-कश्चिज्जीवोऽन्तर्मुहूर्त्तशेषे स्वायुषि स्वशरीरविष्कम्भबाहल्यान्वितमायामतस्तु जघन्यतोऽङ्गुलासंख्ययभागमात्रं उत्कृष्टतस्त्वसंख्येयानि योजनानि शरीराद बहिःस्वप्रदेशदण्डं निसृजति,निसृज्य च यत्र स्थाने ग्रेतनभवे समुत्पत्स्यते तत्र स्थाने तं स्वप्रदेशदण्डं प्रक्षिपति,तच्चोत्पत्तिस्थानं ऋजुगत्या एकेनैव समयेन प्रदेशदण्डं प्राप्नोति,विग्रहगत्या तूत्कृष्टतः पूर्ववच्चतुर्थे । समये प्रामोति, अयमपि च मारणान्तिकसमुद्घातोऽन्तमौहर्तिक एव, तस्मिंश्चान्तमुहर्ते प्रभूतायुःकर्मपुद्गलशातं करोति ३,वैक्रियशरीरनामकर्मविषयः समुदधातो वैक्रियसमुद्घातः, अथवा वैक्रियशरीरकरणकालविषयः समुदघातो वैक्रियसमुद्घातः,अयमपि चेत्थं प्रतिपत्तव्यो, ॥१८७॥ यथा वैक्रियशरीरलब्धिमान् जीवो वैक्रियकरणकाले विष्कम्भवाहल्याभ्यां शरीरप्रमाणं आयामतस्तु जघन्यतोऽगुलसंख्येयभागBI मात्र उत्कृष्टतः पुनः संख्येयानि योजनानि शरीराद् बहिः स्वप्रदेशदण्डं निसृजति, निसृज्य च यथास्थूलान् वैक्रियशरीरनामकर्म पुद्गलान् प्रागवध्धान् शातयति, यत उक्तम्-'वेउब्धियसमुग्याएणं समोहणइ समोहणित्ता संखेज्जाई जोयणाई दंडं निसिरइ २ अहाबायरे AULAGAKALASSICAL 20-562 SAMADAM
SR No.600370
Book TitleJiv Samas Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherAgmoday Samiti
Publication Year1927
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy