________________
जीवसमासे हैमीवृत्तौ. क्षेत्रद्वारे
॥१८६॥
| यमिति गाथार्थः ॥ १९१ ॥ आह-ननूक्तं सर्वमपि लोकगतं स्पर्शनीयं वस्तु, केवलमेतद्वक्तव्यम्-किमेत वक्ष्यमाणाः स्पर्शका समुद्घाताः | मिथ्यादृष्ट्यादयो जीवाः स्वरूपस्था एवैतत् स्पृशन्त्याहोश्चित् केनचिदवस्थाविशेषणेति, अत्रोच्यते, उभयथापि स्पृशन्ति, यद्येवं | | तर्हि स्वरूपस्थता तावद् बुध्यत एव, अवस्थाविशेषस्तु क इति निवेद्यतां, अत्राभिधीयते, समुद्घातसप्तकलक्षणोऽवस्थाविशेषः,* के तर्हि ते सप्त समुद्घाता इत्यत्राह
वेयण कसाय मरणे वेउब्बिय तेयए य आहारे । केवलियसमुग्घाए सत्त य मणुएसु नायब्वा ॥ १९२॥
सम्-एकीभावेन उत्-प्राबल्येन हननं वेदनीयादिकर्मप्रदेशानां निर्जरणं घातः, समेकीभावमापन्नस्य जन्तोरुत्प्राबल्येन घातः हा समुद्घातः, तत्र केन सहकीभावगमनं जीवस्येति चेदुच्यते, यदा आत्मा वेदनादिसमुद्घातगतस्तदा वेदनाद्यनुभवज्ञानपरिणतो | भवति नान्यज्ञानपरिणत इति वेदनाद्यनुभवज्ञानेन सहकत्वापत्तिर्जीवस्यावगन्तव्या, प्राबल्येन घातः कथं तर्हि ?, अत्रोच्यते, यस्माद्वेदनादिसमुद्घातपरिणतो जन्तुहुन् वेदनीयादिकर्मप्रदेशान् कालान्तरानुभवयोग्यानुदीरणाकरणेनाकृष्योदये प्रक्षिप्यानुभूय च निर्जरयतीति तस्यामवस्थायां प्राबल्येन घात उच्यते इति समुद्घात इति स्थितं, स च वेदनादिभेदेन सप्तधा भिद्यते, तद्यथा-वेदनासमुद्घातः कषायसमुद्घातो मारणान्तिकसमुद्घातो वैक्रियसमुद्घातस्तैजससमुद्घात आहारकसमुद्घातः केवलिसमुद्घात इति । तत्र वेदनया-असद्वेदनीयोदयजनितया पीडया हेतुभूतया समुद्घातो वेदनासमुद्घातः, वेदनाऽऽकुलितो | ह्याकुलीभूतो जीवः स्वप्रदेशाननन्तानन्तकर्मस्कन्धवेष्टितान् शरीराद् बहिरपि प्रक्षिपति, तैश्च प्रदेशैर्जठरमुखबाह्लादिशुीषराणि कर्ण-18॥१८६॥