________________
जीवसमा से वृत्
क्षेत्रद्वारे
॥१८५॥
पूर्वोक्तलोकमध्यगतरत्नप्रभाप्रतरद्वयमध्ये उपरितनपतरादूर्ध्व मंगुलासंख्येयभागारोहेऽङ्गुलासंख्येयभागवृद्धया प्रदेशवृद्धिर्नन्यादौ ' निर्दिष्टा ' कथिता, कियद्दूरं यावदित्याह - ' ब्रह्मलोकं ' पञ्चमं कल्पं यावदिति, ननु रज्जुप्रमाणेन कियत्प्रमाणेयं प्रदेशवृद्धिरवगन्तव्येत्याह- 'अबुट्ठा खलु रज्जु ' त्ति अर्द्धचतुर्थरज्जुप्रमाणासौ लोकस्योर्ध्वं प्रदेशवृद्धिरित्यर्थः, ' तेण परं होइ परिहाणी' त्ति, ततोऽर्द्धचतुर्थरज्जुभ्यः परेणांगुलासंख्येयभागारोहांगुलासंख्येयभागहान्या प्रदेशहानिर्लोकान्तं यावद्भवति, साप्यर्द्धचतुर्थरज्जुप्रमाणेत्यवसेयम्, अर्द्धचतुर्थशब्दस्योभयत्रापि सम्बन्धाद्, अत्राह ननु यदि ऊर्ध्वलोके अर्धचतुर्थरज्जुप्रमाणा प्रदेशवृद्धि| स्तत्प्रमाणैव च परतः प्रदेशहानि:, तर्हि सम्पूर्णसप्तरज्जुप्रमाण एवोर्ध्वलोकः प्रोक्तो भवति, किञ्चिन्न्यून सप्तरज्ज्वात्मकश्चैष सिद्धान्ते श्रूयते, सत्यं किञ्चिन्न्यूनत्वस्याल्पत्वेनेहाविवक्षितत्वाददोषः, तदेवं ब्रह्मलोकं यावदर्द्धचतुर्थरज्जुप्रमाणं लोकपर्यन्तेन तु सप्तरज्जुप्रमाणं क्षेत्र जीवाजीवानां स्पर्शनीयत्वेनात्रोक्तमित्यप्यवगन्तव्यमिति गाथार्थः ॥ १९० ॥ ननु यद्येवं तर्हि प्रत्येकमीशानादीनपि देवलोकान् यावत् कियद्रज्जुप्रमाणं जीवादिस्पर्शनीय क्षेत्रमस्तीत्युच्यतामित्याशंक्याह
ईसाणम्मि दिवड्ढा अड्डाइज्जा य रज्जु माहिंदे | पंचेव सहस्सारे छ अच्चुए सत्त लोगंते ॥ १९१ ॥
पूर्वोक्ताल्लोकमध्यात् सौधर्मेशानदेवलोकौ यावत् सार्द्धरज्जुः सार्द्धरज्जुप्रमाणं स्पर्शनीयं क्षेत्रमित्यर्थः एवं सनत्कुमारमा - हेन्द्रौ यावत् सार्द्धरज्जुद्वयमानं सहस्रारं यावत् पञ्चरज्जुप्रमाणं आरणाच्युतौ यावत् षड्ज्जुप्रमाणं लोकान्तं यावत् सप्तरज्जुप्रमाणं, अनन्तरगाथायामूर्ध्वप्रदेश वृद्धिहानिप्रसंगेन लोकान्ते सप्त रज्जवः प्रोक्ताः, इह तु मुख्यत इति न पौनरुक्त्यमाशंकनी -
सौधर्मादिषु रज्जुमाने
समुद्
घाताश्व
।। १८५ ।।