________________
ऊर्ध्वलोक स्पर्शना
जीवसमासे हैमीवृत्ती क्षेत्रद्वारे ॥१८४॥
लोकाकाशे तिर्यक् पृथिव्यस्तावत् सर्वा अपि वर्तन्ते, यत्र तु पर्यन्तवर्तिनि कियत्यपि स्वल्पे न वर्तन्ते, तदिहाल्पत्वादेव न विव| क्षितमित्यदोषः, अत्र च "तिरियं लोयपमाणं, तिरियं लोगायाम पमाण" मित्यादि पाठान्तराणि दृश्यन्ते, तान्यप्युक्तानुसारेण व्याख्येयानि । 'आगासंतरिया उ' त्ति आकाशेन-असङ्घथेययोजनसहस्रविस्तीर्णनभःखण्डेन सप्तापि पृथिव्यः परस्परमन्तरिता आकाशान्तरिताः, इदमुक्तं भवति-रत्नप्रभायाः परतोऽधस्तादसङ्ख्थेययोजनसहस्रविस्तीर्णाकाशखण्डेनान्तरिताव्यवहिता शर्कराप्रभा व्यवस्थिता, न पुनर्निरन्तरा, तदधस्ताद्वालुकाप्रभापीत्थमेव स्थिता, एवं यावत् षष्ठपृथिव्याः परेणाधस्तादसंख्यातयोजनसहस्रविस्तरेणाकाशेन व्यवहिता सप्तमपृथ्वी व्यवस्थिता, न तु निरन्तरा, उक्तञ्च-"इमीसे णं भंते ! रयणप्पभाए | पुढवीएय सकरप्पभाए पुढवीएय केवइयं अबाहाए अंतरे पण्णत्ते? गोयमा! असंखेज्जाई जोयणसहस्साई अबाहाए अंतरे पण्णत्ते, एवं | ताव छट्ठीणं भत्ते! तमाए पुढवीए अहे सत्तमाए य पुढवीए केवइयं अबाहाए अंतरे पण्णत्ते ? गोयमा ! असंखेज्जाइ जोयणसह
स्साई अबाहाए अंतरे पण्णत्ते ॥" 'विच्छिण्णयराउ हिडे?' ति अधोऽधोविस्तीर्णतराश्चैताः सप्तापि पृथिव्यो मन्तव्याः, 8लोकोऽधस्तात् क्रमेण विस्तीर्णः, तिर्यग्वदायतप्रमाणाश्चैताः समनन्तरमेव निरूपिता इति सामााल्लोकविस्तारानुसारतः
पृथिवीनामधोधो विस्तरः सिद्ध एवेति गाथार्थः॥ १८९ ॥ तदेवं निरूपितमधोलोकेऽपि स्पर्शनीयं वस्तु, साम्प्रतमू लोकस्य तावत् स्वरूपनिर्णयमाह
उड्डे पएसवुड्डी निद्दिट्टा जाव बंभलोगोत्ति । अझुट्ठा खलु रज्जू तेण परं होइ परिहाणी ॥१९॥
॥१८॥