SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ जीवसमासे ऊर्ध्वलोकोऽधोलोकयोः समयपरिभाषया तियङ्-मध्ये व्यवस्थितो लोकस्तिर्यग्लोकः, अथवा तियकशब्दोऽत्र मध्यमत्ववाचकः,त अधोलोक हैमीवृत्ती तश्च तिर्यङ्-मध्यपरिणामवन्ति द्रव्याणि लोक्यन्ते-दृश्यन्ते केवलिना अस्मिन्निति तिर्यग्लोकः, अत्र हि क्षेत्रानुभावादेव सर्वाण्यपि स्पेशना क्षेत्रद्वारे प्रायो मध्यमपरिणामवन्ति द्रव्याणि भवन्ति, न तूर्ध्वलोकवदुत्कृष्टपरिणामवन्ति नाप्यधोलोकवनिकृष्टपरिणामवन्तीति भाव ॥१८३॥ | इति गाथार्थः ॥१८८॥ ननु-उक्तं तिर्यग्लोके जीवादेः स्पर्शनीयं वस्तु, अधोलोके किं जीवादेः स्प्रष्टव्यमस्तीति निवेद्यताम् , उच्यते | रत्नप्रभादिकाः सप्त पृथिव्यः,तर्हि तासां किं तिर्यक् प्रमाणमिति कथ्यता, सान्तरा निरन्तरा वा एता इति चावेद्यतामधोऽधोवर्तिन्यश्चोपर्युपरिवर्तिपीथवीभ्यः सकाशात् किं अधिकविस्तराः समानविस्तरा वा इत्येतच्च प्रतिपाद्यताम् , इत्याशंक्याह-13 तिरियं लोगायाम पमाण हेठ्ठा उ सबपुढवीणं । आगासंतरियाउ विच्छिन्नयरा उ हेट्टेट्ठा ॥ १८ ॥ का तिर्यग्लोके स्पर्शनीयं वस्तूक्तम्, हेट्ठा उ' ति अधस्तात् पुनः सप्त नरकपृथिव्यो द्रष्टव्या इत्युपस्कारः, 'सव्वपुढवीण'प्रति तासां च सर्वपृथिवीनां 'तिरियं ' तिर्यक् पूर्वापरेण दक्षिणोत्तरेण वा प्रमाणं विज्ञेयमिति सण्टङ्कः, कियदित्याह लुप्तविभक्तिकत्वानिर्देशस्य लोकायाम, इदमुक्तं भवति यावत्प्रमाणं तियग्लोकाकाशं तावत्प्रमाणास्तिर्यगता अपि सप्त पृथिव्यो भवन्ति, अत्राह-तिर्यग्लोकायामो लोकं यावदस्ति, न चैताः सप्त पृथिव्योऽलोके स्पृष्टाः, पृथिव्यलोकयोरन्तरे “ छच्चेव अद्धपंचमजोयणमद्धं च हुँति रयणाए " इत्यादिना ग्रन्थेन घनोदधिधनवाततनुवातवलयानां केवलस्य स्तोकाकाशस्य चागमे प्रतिपादितत्वात् तत् कथमुच्यते लोकायामस्तासां तिर्यक्प्रमाणमिति, सत्यं, किन्तु बहुतरे AASAASAASAASAAN
SR No.600370
Book TitleJiv Samas Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherAgmoday Samiti
Publication Year1927
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy