________________
हैमीवृत्तो.
जीवसमासे क्षेत्रद्वारे ॥१८२॥
समुद्राः स्वद्वीपसदृशनामानः स्वयमेव बोद्धव्या इत्युक्तमेव, एते च जम्बूद्वीपादयो रुचकवरपर्यन्ता द्वीपसमुद्रा नैरन्तर्येणावास्थताः नामतः प्रतिपादिताः, इत ऊर्ध्व नैरन्तर्येणावस्थितानां द्वीपानामसंख्येयत्वात् प्रत्येकं नामानि कथयितुं न शक्यंते, अतोऽसंख्याततमद्वीपानां कियतामपि नामानि कथ्यन्ते, तद्यथा-रुचकवरद्वीपादसंख्येयान् द्वीपसमुद्रान् गत्वा भुजगवरो नाम द्वीपः समवसेयः, ततोऽप्यसंख्येयांस्तानतिक्रम्य कुशवरो नाम द्वीपो ज्ञातव्यः, ततोऽप्यसंख्येयांस्तानुल्लङ्घ्य क्रौञ्चवरो नाम द्वीपः, एवमसंख्येयान|संख्येयान् द्वीपसमुद्रानतिवयं- "आभरणवत्थ गंधे उप्पल तिलए य पुढविनिहिरयणे । वासहरदहनईओ विजया वक्खार कप्पिदा ॥१॥ कुरु मंदर आवासा कूडा नक्खत्त चंद सूरा य । देवे नागे जक्खे भूए य सयंभुरमणे य ॥२॥" अस्मिन् सिद्धान्तोक्तगाथाद्वयप्रतिपादिताभरणवस्त्रगन्धोत्पलतिलकादिवस्तुपर्यायसदृशनामक एकैको द्वीपस्तावद्वक्तव्यो यावदन्ते स्वयम्भुरमणो द्वीपः, तत्परतस्तु शुद्धोदकरसास्वादः स्वयम्भुरमणः समुद्रः, आह- यद्येवं तीसंख्येयानसंख्येयान् द्वीपानातक्रम्य ये वर्तन्ते तेषामेव द्वीपानामेतानि नामान्यभिहितानि, ये तु तदन्तरालेषु द्वीपास्ते किंनामका इति वक्तव्यम् , सत्यं, लोके पदार्थानां शंखध्वज| कलशस्वस्तिकश्रीवत्सादीनि यावन्ति शुभनामानि तैः सर्वैरप्युपलक्षितास्ते द्वीपाः प्राप्यन्त इति स्वयमेव द्रष्टव्यम् , उक्तं च समयसागरे-"दीवसमुदाणं भंते! केवइया नामधेज्जेहिं पण्णता? गोयमा! जावइया लोए सुभा नामा सुभा रूवा सुभा गन्धा सुभा रसा सुभा फासा एवइया णं दीवसमुद्दा नामधेज्जेहिं पण्णत्त"ति, यावन्ति शंखध्वजादीनि शुभनामानि यावन्तश्च शुभरूपगन्धादिवाचका ध्वनयस्तद्वाच्या असंख्येया द्वीपा ज्ञातव्या इति भावः, समुद्रास्तु द्वीपसदृशनामान इत्युक्तमेव, तदेवमेते यथोत्तरं द्विगुणाद्वगुणविस्तारा असंख्येया द्वीपसमुद्राः परिभावनीयाः, एवं चासंख्येयद्वीपसमुद्रान्वितः स्वयम्भुरमणसमुद्रं यावत् तिर्यग्लोको मन्तव्यः,