________________
द्वीपसमुद्रा
हैमीवृत्ती
मध्यभागे. कालोदसमुद्रादष्टंभिर्योजनलक्षवलयाकारो मानुषोत्तरनामा शैलः-पर्वतः समस्ति, एतावानेव च-मानुषोत्तरपर्वतपर्यन्तो जीवसमासे
नराणां जन्ममृत्युसदाऽवस्थितिस्थानभूतो लोको नरलोको विज्ञेयः, परतो नराणां जननमरणसदाऽवस्थानाभावात् , तर्हि तबहिः क्षेत्रद्वारे
| किमस्तीत्याह- मानुषोत्तरपर्वताद् बहिस्तियञ्चो देवास्तन्नगर्यश्चावास्थिताः सर्वदैव प्राप्यन्ते, न मनुष्या इति गाथार्थः ॥ १८७ ॥
आह-ननु पुष्करद्वीपात् परतो द्वीपसमुद्राः सन्ति न वेत्याह॥१८॥
एवं दीवसमुद्दा दुगुणदुगुणवित्थरा असंखेज्जा । एवं तु तिरियलोगो संयंभुरमणोदहिं जाव ॥ १८८॥ ___एवं यथा पूर्वमुक्तास्तथाऽन्येऽपि द्वीपसमुद्रा वक्तव्याः, कियन्त ? इत्याह- असंख्येया द्वीपसमुद्राः, असंख्येयकस्य च प्रमाणं
प्रागेव निर्णीतम् , कथम्भूतास्ते वक्तव्याः ? इत्याह- यथोत्तरं द्विगुणद्विगुणविस्ताराः, तथाहि-पुष्करद्वीपात् परतस्ततो द्विगुणप्रमाणः लशुद्धोदकरसास्वाद एव पुष्करोदः समुद्रो वाच्यः, ततोऽपि वरुणवरो द्वीपः वारुणीरसास्वादो वरुणोदः समुद्रः ४, ततः क्षीरवरो
द्वीपः क्षीररसास्वादः क्षीरोदः समुद्र ५, ततोऽपि घृतवरो द्वीपः, घृतरसास्वादो घृतोदः समुद्रः ६, ततोऽपीक्षुवरो द्वीपः, इक्षु| रसास्वाद एवेक्षुरसः समुद्रः ७, इत ऊर्ध्व सर्वे समुद्रा द्वीपसदृशनामानोऽवगन्तव्याः , अपरं च-स्वयम्भूरमणवर्जाः सर्वेऽपि ते इक्षु| रसास्वादा विज्ञेयाः, तत्र द्वीपनामान्यमूनि, तद्यथा- इक्षुरससमुद्रादनन्तरं नन्दीश्वरो द्वीपः ८, अरुणवरः ९ अरुणावासः १० | कुण्डलवरः ११ शंखवरः १२ रुचकवरः १३ इत्यनुयोगद्वारचूर्ण्यभिप्रायेण त्रयोदशो रुचकवरः, अनुयोगद्वारसूत्रे त्वरुणावासशंखवरद्वीपो लिखितौ न दृश्येते तस्तदभिप्रायेणैकादशो रुचकवरः, परमार्थ तु योगिनो विदन्तीति, नन्दीश्वरादिद्वीपानामन्तरे
25AAAAAAD
ASARAMA
॥१८॥