SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ द्वीपसमुद्रा हैमीवृत्ती जीवसमासे BI तत्र द्वाभ्यां प्रकाराभ्यां स्थानदातृत्वाहाराद्युपष्टम्भहेतुत्वलक्षणाभ्यां प्राणिनः पातीति द्वीपः, शाश्वतेन रत्नमयजम्बूवृक्षणोपलक्षितो द्वीपो जम्बूद्वीपः, सच सम्पूर्णचन्द्रमण्डलमिव वृत्तसंस्थानो-चर्तुलाकारस्तथा वृत्तत्वादेव पूर्वापरेण दक्षिणोत्तरेण च योजनशतसहक्षेत्रद्वारे | सविस्तीर्णो-लक्षयोजनविस्तारः, अपर च मेरु भौ-मध्यप्रदेशे यस्यासौ मेरुनाभिक इति गाथार्थः ॥ १८५ ॥ तस्यापि पार्वतः ॥१८॥ किमस्तीत्याहतं पुण लवणो दुगुणेण वित्थडो सव्वओ परिक्खिवइ । तं पुण धायइसंडो तदुगुणोतंच कालोओ ॥१८६॥ तं पुनर्यथोक्तस्वरूपं जम्बूद्वीपं 'लवणो' लवणरसास्वादो लवणसमुद्रस्ततो द्विगुणेन विस्तीर्णो द्विलक्षयोजनविस्तार इत्यर्थः सर्वतः-सर्वेषु पार्वेषु परिक्षिपति-वेष्टयति, तमपि लवणसमुद्रं शाश्वतरत्नमयधातकीवृक्षखण्डोपलक्षितो द्वीपो धातकीखण्डस्तद्विगुणोलवणसमुद्रप्रमाणाद् द्विगुणप्रमाणश्चतुर्लक्षयोजनविस्तार इत्यर्थः, सर्वतः परिक्षिपतीत्यत्रापि सम्बध्यते, तमपि धातकीखण्डद्वीप शुद्धोदकरसास्वादः कालोदनामा समुद्रः सर्वतः परिक्षिपति, तद्विगुण इतीहापि सम्बध्यते, धातकीखण्डद्वीपप्रमाणादपि द्विगुणप्रमाणोऽयमष्टयोजनलक्षविस्तीर्ण इत्यर्थ इति गाथार्थः ॥ १८६ ॥ ततोऽपि किमित्याह तं पुण पुक्खरदीवो तम्मज्झे माणुसोत्तरो सेलो । एतावं नरलोओ बाहिं तिरिया य देवा य ॥१८७॥ तमपि कालोदसमुद्रं पुष्कराणि-पद्मानि तैः शाश्वतरत्नमयैरुपलक्षितो द्वीपः पुष्करद्वीपः, सर्वतः परिक्षिपति तद्विगुण इतीहाप्यपक्षणोयम् , कालोदप्रमाणाद् द्विगुणप्रमाण इत्यर्थः, पोडशयोजनलक्षविस्तार इति हृदयम् , तस्य च पुष्करद्वीपस्य मध्ये SASARVASCRIKA RECAAAAAACHAR ॥१८०॥
SR No.600370
Book TitleJiv Samas Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherAgmoday Samiti
Publication Year1927
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy