________________
जीवसमा से हमीवृत्तौ क्षेत्रद्वारे
॥ १७७॥
लोए धम्माऽधम्मा लोयालोए य होइ आगासं । कालो माणुसलोए उ पोग्गला सव्वलोयम्मि ॥ १८२ ॥
धर्माधर्मास्तिकाय पूर्वोक्तस्वरूपौ प्रत्येकं सर्वस्मिन्नपि लोकाकाशक्षेत्रे भवतः, समस्तमपि लोकाकाशक्षेत्रं धर्माधर्मास्तिकायौ प्रत्येकमभिव्याप्य तिष्ठत इत्यर्थः, आकाशास्तिकायस्तु लोकमलोकं चाभिव्याप्य तिष्ठति, कालस्तु चन्द्रसूर्यगतिक्रियाऽभिव्यङ्ग्योऽतृतीयद्वीपसमुद्रलक्षणे मनुष्यक्षेत्र एव भवति, न परतो, मनुष्यक्षेत्रात् परेण चन्द्रसूर्याणां गतिक्रियाया एवाभावादिति भावः, द्रव्याणां यत्तेन तेन रूपेण वर्त्तनं तद्रूपः कालो मनुष्यक्षेत्राद्वहिरपि सिद्धान्ते समनुज्ञात इति भावनीयम्, परमाणुद्व्यणुकादयोऽनन्ताणुस्कन्धपर्यवसानास्तु पुद्गलाः सर्वस्मिन्नपि लोकक्षेत्रे प्राप्यन्त इति गाथार्थः ।। १८२ ॥ तदेवं दर्शितमजीवद्रव्याणामपि क्षेत्रं, तथा च सति क्षेत्रद्वारसमाप्तमिति । साम्प्रतं ' संतपयपरूवणया दुव्वपमाणं चे ' त्यादिगाथोपक्षिप्तस्य (मेव) स्पर्शनाद्वारमभिधानीयम्, स्पर्शना च स्पर्शनीये सत्येव भवति, स्पर्शनीयं च लोकोवीधस्तिर्यग्लोकादिभेदादनेकधा सम्भवति, अतस्तदेव तावद्द - र्शयितुमुपक्रमते
आगासं च अणतं तस्स य बहुमज्झदेस भागम्मि । सुपइट्टियसंठाणो लोगो कहिओ जिणवरेहिं ॥ १८३ ॥ लोकालोकगतं सामान्येन तावच्चिन्त्यमानमाकाशमनन्तं भवति, तस्य चानन्तस्याकाशस्य बहुमध्यदेश भागे – मध्यरूपो | देशो मध्यदेशः, स च किश्चिदूनाधिकोऽपि उपचारान्मध्यदेश उच्यते अतस्तन्निरासार्थमाह-चंहु-अतिशयेन निरुपचरितो योऽसौ मध्यदेशस्तद्रूपो भागः सर्वाकाशस्यांशो बहुमध्यदेशभागस्तस्मिन्नित्यर्थः, अत्र च पाठान्तराणि दृश्यन्ते, तान्यपि देशशब्दस्य भिन्न
लोक संस्थानं
॥ १७७॥