________________
जीवसमासे हैमीवृत्ती.
क्षेत्रद्वारे
॥१७६॥
न्तिकसमुद्घाते चाग्रेतनोत्पत्तिस्थाने निक्षिप्तस्वप्रदेशदण्डास्ते सर्वमपि लोकं व्याप्नुयुरिति, पूर्व च यादरपर्याप्तवायूनां यल्लोकस्य संख्येय भागप्रमाणत्वमुक्तं तत् संख्यामेवाश्रित्येति मन्तव्यम्, अत्र तु ते लोकसंख्येय भागप्रदेशराशिप्रमाणतया पूर्व निर्णीता | बादरपर्याप्तवायवः स्वावगाहेन कियत् क्षेत्र रुन्धन्तीति चिन्तितमिति न कश्चित् पूर्वापरविरोध इति गाथार्थः ॥ १८० ॥ तदेवमभिहितं जीवद्रव्याणां क्षेत्रम्, साम्प्रतमजीवद्रव्याणां तदभिधाने प्रक्रान्तेऽपि विचित्रत्वात् सूत्रगतेस्तावद्भण्यमान क्षेत्रद्वारगतस्य | क्षेत्रस्य वक्ष्यमाणस्पर्शनाद्वारगतस्पर्शनायाश्च विशेषं दिदर्शयिषुराह
सट्ठाणसमुग्धाएणुववाएणं च जे जहिं भावा । संपइ काले खेत्तं तु फासणा होइ समईए ॥ १८१ ॥
ये यत्र जीवाः समुत्पद्यन्ते तत्तेषां स्वस्थानमुच्यते, यथा पृथ्वीकायिकानां रत्नप्रभापृथिव्यादिकं समुद्घातो- मारणान्तिकसमुद्घातादिलक्षणो वक्षमाणस्वरूपः 'उपपातो' भवान्तरालवर्त्तनात्मकः, एतैः स्वस्थानसमुद्घातोपपातैर्ये भावाः पृथिव्यादयो यत्र रत्नप्रभादिके स्थाने सम्भवन्ति तेषां तत् साम्प्रतकालविषये क्षेत्रमवगन्तव्यम्, स्पर्शना त्वतीतकालविषयापि भवति, तथाहिविग्रहगत्यवस्थायां स्वप्रदेशैः सर्वतः समाक्रान्तमेव समस्तलोकलक्षणं क्षेत्रं वादरापर्याप्तैकेन्द्रियाणां पूर्वमुक्तं, स्पर्शना त्वतीतकालविषयापि वक्ष्यते, यथा देशविरतादेरितः स्थानादच्युतदेवलोकाद्युत्पन्नस्य पड्रज्ज्वादिका, सा हि अतः स्थानाद् रज्जुषट्कं स्पृष्ट्वाऽच्युतदेवलोकं गतोऽप्यनन्तरातीतकालस्पृष्टरज्जुषट्कापेक्षया रज्जुषदकस्य स्पर्शको वक्ष्यते, एवमन्यत्रापि भावनीयमिति गाथार्थः ॥ १८९ ॥ अथ प्रागनभिहितमजीवद्रव्याणां क्षेत्रमभिधित्सुराह
क्षेत्रस्पर्शनयोर्विशेषः अजीवक्षेत्रं
च
॥१७६॥