SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ हैमीवृत्ती. ऊर्ध्वादि लोक संस्थानं जीवसमासे । स्थानयोजनादिप्रकारेणोक्तानुसारतो व्याख्येयानि, तत्रैवंभूते सर्वाकाशस्य बहुमध्यदेशभागे, किमित्याह-सुप्रतिष्ठितसंस्थानो |लोकः-पंचास्तिकायसमुदयरूपः कथितो जिनवरैः, तत्र सुप्रतिष्ठितः काष्ठत्रयनिष्पन्नो भाजनाधारभूतो लोके प्रतीत आस्खलकः, क्षेत्रद्वारे आ समन्तादधः पतद्भाजनं स्खलति-निवारयतीत्यास्खलकः, अत एव सुप्रतिष्ठितः सुष्ठु प्रतिष्ठितं भाजनाद्यस्मिन्नितिकृत्वा, सुप्रतिष्ठित॥१७८॥ स्येव संस्थानम्-आकारो यस्यासौ सुप्रतिष्ठितसंस्थानो लोकः, उपलक्षणं चैप सुप्रतिष्ठितः तदुपर्यवाङ्मुखीकृतशरावादिभाजनस्य, लियत आस्खलकवल्लोकोऽधस्तात् क्रमेण विस्तीर्णो मध्ये संक्षिप्तः, उपर्यपि क्रमेण विस्तीर्णो ब्रह्मलोकं यावत्तदुपरि तु पुनरपि संक्षिप्तः सिद्धिक्षेत्रं यावत्, ततश्चेत्थं ब्रह्मलोकपर्यन्त एव लोकः सुप्रतिष्ठितसंस्थानो भवति, सिद्धिक्षेत्रपर्यन्तस्तु चिन्त्यमान उपर्यवाङ्मुखीकृत|तिलकादिभाजनसुप्रतिष्ठितोपम एव भवतीति भावनीयमिति गाथार्थः ॥ १८३ ॥ अस्य च लोकस्याधस्तादधोलोको मध्ये तिर्यग्लोकः उपरिष्टादूर्ध्वलोक इत्यतोऽमीषां त्रयाणामपि विभागानां पृथक् संस्थाननिरूपणार्थमाह हेट्ठा मज्झे उवरिं वेत्तासणझल्लरीमुइंगनिभो । मज्झिमवित्थाराहियचोइसगुणमायओ लोओ ॥ १८४ ॥ _____ अधस्ताद्वेत्रासनसन्निभोऽयं लोकः, यादृशः श्लक्ष्णवेत्रलतानिर्मितोऽधस्ताद्विस्तीर्ण उपरि किञ्चित् संक्षिप्त आसनविशेषो भवति, लोकोऽपि रत्नप्रभोपरितलादधस्ताक्रमेण विस्तरतस्तादृश एव भवति, 'झल्लर' उभयतोऽतिविस्तीर्णमुखो जावालपुरादिप्रसिद्धो वादित्रविशेषः मध्ये-तिर्यग्लोकप्रदेशे लोकस्तादृशो भवति, यथा हि झल्लरीवादित्रस्योर्ध्वव्यवस्थापितस्योपरिष्टादधस्ताच्चा- तीव विस्तीर्णता वृत्तत्ता च मध्यं तु स्तोकं दृश्यते, एवं तिर्यग्लोकलक्षणे मध्यलोकेऽप्यध उपरि च प्रत्येकं सातिरेकरज्जु SARALARAM ॥१७॥
SR No.600370
Book TitleJiv Samas Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherAgmoday Samiti
Publication Year1927
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy