________________
जविसमासे
क्षेत्रद्वारे
नुमानं
॥१७४॥
| लोकव्यापित्वसमये एषोऽपि सर्वस्मिन्नपि लोके प्राप्यत इति गाथार्थः ॥ १७८ ॥ नन्वस्यां गाथायां मिथ्यादृष्टयः सर्वलोकवर्तिन | | इत्युक्तं ते चैकीन्द्रयादिभेदतो बहुभेदास्तत् किं ते सर्वेऽपि सर्वलोकवार्त्तिन आहोश्चित् केचिदेवेत्याशङ्कयाह
सूक्ष्मादित। तिरिएगिदियसुहुमा सव्वे तह बायरा अपज्जत्ता । सव्वेवि सव्वलोए सेसा उ असंखभागम्मि ॥ १७९ ॥ | 'तिरिएगिंदियसुहमा सव्वेत्ति तिर्यञ्चः पृथिव्यप्तेजोवायुवनस्पत्येकेन्द्रियलक्षणाः सूक्ष्माः सर्वे 'सव्वलोए' त्ति |
सर्वस्मिन्नपि लोके प्राप्यन्त इत्यर्थः, 'सुहुमा य सबलोए' इति वचनादिति, 'तह बायरा अपज्जत्ता सव्वेवि' ति तथा |बादरापर्याप्ताः पृथिप्यप्तेजोवायुवनस्पत्येकेन्द्रियाः प्रत्येकं सर्वेऽपि समुदिताश्चिन्त्यमानाः, सर्वस्मिन्नपि लोके प्राप्यन्त इतीहापि | सम्बध्यते, आह-ननु सूक्ष्मैकेन्द्रियान् विहाय शेषजीवानां सर्वलोकवर्तित्वमागमे न क्वचिदुक्तं तत् कथं बादरपर्याप्तकेन्द्रियाणामत्र | प्रत्येकं सर्वलोकवर्तित्वमुच्यते ?, सत्यं, स्वस्थानमङ्गीकृत्य सूक्ष्मैकेन्द्रिया एव सर्वलोकव्यापिनः प्राप्यन्ते, उत्पादसमुद्घातौ त्वाश्रित्य बादरापर्याप्ता अप्येकेन्द्रियाः प्रत्येकं सर्वस्मिन्नपि लोके प्राप्यन्ते, उक्तञ्च प्रज्ञापनायाम्- “कहि णं भंते ! बायरपुढविकाइयाणं । अपज्जत्तगाणं ठाणा पण्णत्ता ?, गोयमा ! जत्थेव बायरपुढविकाइयाणं पज्जत्तगाणं ठाणा पण्णत्ता तत्थेव बायरपुढविकाइयाणं अपज्जत्तगाणं ठाणा पण्णत्ता, उववाएणं सबलोए, समुग्घाएणं सव्वलोए, सट्ठाणेणं लोयस्स असंखेज्जइभाग" त्ति, तत्रोत्पादो, ॥१७४॥ भवान्तरालगतिलक्षणस्तस्मिन्नेते बादरापर्याप्तपृथ्वीकायिका विग्रहावस्थाभाजः सर्वमपि लोकं व्याप्नुवन्ति, तथा समुद्घातोमारणान्तिकसमुद्घातलक्षणो वक्ष्यमाणस्वरूपस्तस्मिन्नपि वर्तमाना एते सर्वलोकव्यापिनः प्राप्यन्ते, स्वस्थानं तु रत्नप्रभा
ना., गोयमा ! जत्थेव बायरपुटविका याच मज्ञापनायाम्- “कहिण असादसमुद्घातौ त्वाश्रित्य