SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ मिथ्याजीवसमासे है ग्रैवेयकानुत्तरसुरास्तु सत्यामपि लब्ध्यामुत्तरवैक्रियं स्वभावात् न कदाचित् कुर्वन्तीति मन्तव्यम् , इदं च सर्वमपि प्रागुक्तं शरीरमान दृष्ट्यादेः हैमीवृत्ती. मुत्सेधारगुलेनैव द्रष्टव्यम् , " उस्सेहपमाणओ मिण देहम्" इति वचनादिति, दिङ्मात्रप्रदर्शनं चेदं, विस्तरस्तु देवेन्द्रनरकेन्द्र- क्षेत्र क्षेत्रद्वारे कादिभ्योऽवसेय इति गाथार्थः ॥१७७॥ तदेवमवगाहनाचिन्तनमुखेन नारकादीनां क्षेत्रद्वारप्रक्रमायातं क्षेत्रं चिन्तितं, गुणस्थान-18! लक्षणेषु च जीवसमासेषु प्रस्तुतेषु यन्नारकादीनामवगाहनामानं चिन्तितं तत्र कारणमादावेवोक्तम् , साम्प्रतं तु तेषामेव ॥१७३॥ गुणस्थानलक्षणजीवसमासानां मुख्यत एवावगाहक्षेत्रं लोकभागलक्षणप्रमाणतश्चिन्तयितुमाह मिच्छा य सव्वलोए असंखभागे य सेसया हुंति । केवलि असंखभागे भागेसु व सव्वलोए वा ॥१७८॥ मिथ्यादृष्टयस्तावत् सर्वस्मिन्नपि चतुर्दशरज्ज्वात्मके लोके प्राप्यन्ते, सूक्ष्मैकेन्द्रिया हि सर्वत्रापि लोके वर्त्तन्ते, ते च सर्वेऽपि | मिथ्यादृष्टय एवेति युक्तं सर्वलोकवर्तित्वममीषां, ' असंखभागे य सेसया होंति 'त्ति शेषाः-सास्वादनसम्यग्मिथ्यादृष्ट्यावरत| सम्यग्दृष्टयादयः सयोगिकेवलिवर्जाः सर्वेऽपि प्रत्येकं लोकस्यासंख्येयभागे वर्तन्ते, सम्यग्मिथ्यादृष्टयादयो हि सर्वे संक्षिपञ्चेन्द्रिहयेष्वेव लभ्यन्ते, सास्वादनास्तु केचित् स्वल्पाः अपर्याप्तद्वित्रिचतीन्द्रियासंज्ञिपञ्चेन्द्रियादिष्वपि प्राप्यन्ते, एते च संज्ञिपञ्चेन्द्रियादयः 6॥१७॥ * स्वल्पत्वाल्लोकासंख्येयभाग एव लभ्यन्त इति युक्तं सास्वादनादीनां लोकासंख्येयभागवर्तित्वामिति, केवलि असंखभागे' | इत्यादि, सयोगकेवली पुनरेकः केवलिसमुद्घातमकुर्वन् सहजावस्थायां समुद्घातेऽपि कृतदण्डकपाटावस्थायां लोकस्यासंख्येयभागे | वर्चते, 'भागेसु व 'त्ति मन्थानं कुर्वन् पुनरेषोपि लोकस्यासंख्येयेषु भागेषु वर्तत इत्यर्थः, 'सव्वलोए व' त्ति चतुर्थे | %AAAAAAAG
SR No.600370
Book TitleJiv Samas Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherAgmoday Samiti
Publication Year1927
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy