________________
जविसमासे हैमीवृत्तौ. क्षेत्रद्वारे
॥ १७२ ॥
उक्तशेषका ये कायाः पृथिव्यप्तेजोवायुलक्षणास्तेषां प्रत्येकं सूक्ष्माणां बादराणां च जघन्यत उत्कृष्टत चांगुलासंख्येयभागः शरीरमानं, न केवलमेतेषामेवांगुला संख्येयभागः शरीरमान किन्तु ' सव्वेसि च जहणणं' ति येषां नारकाणां द्वित्रिचतुरिन्द्रियवनस्पतीनां सम्मूर्च्छजगर्भजापर्याप्तपञ्चेन्द्रियतिरश्चां प्राग् जघन्यदेहमानं नोक्तं येषां च मनुष्यादीनामग्रेऽपि तन्नाभिधास्यते तेषामपि सर्वेषां जघन्यमंगुला संख्येयभाग एव शरीरमानमवगन्तव्यम्, मनुष्याणां गव्यूतत्रयमुत्कृष्टं शरीरमानं, जघन्यं तूक्तमेवेति गाथार्थः ॥ १७६ ॥ अथ देवानां शरीरप्रमाणमाह
भवणवइवाणमंतरजोइसवासी य सत्तरयणीया । सक्काइ सत्तरयणी एक्केका हाणि जावेका ॥ १७७॥
भवनपतिव्यन्तरज्योतिष्काः सर्वेऽप्युत्कृष्टतः प्रत्येकं सप्तहस्तप्रमाणा भवन्ति, 'सकाइ सत्तरयणी'ति शक्रः – सौधर्मेन्द्रस्तदुपलक्षितोऽत्र सौधर्मदेवलोक एव गृह्यते, आदिशब्दादीशानपरिग्रहः, ततस्तयोरपि सौधर्मेशानयोर्देवाः प्रत्येकमुत्कृष्टतः सप्तहस्तशरीरा भवन्ति, ततः परमेकैकहस्तहानिर्यावत् पर्यन्ते एको हस्तः, इदमुक्तं भवति - सनत्कुमारमाहेन्द्रयोरुत्कृष्टस्थितिकदेवानामुत्कृष्टशरीरहानिमतां षड् हस्ताः शरीरप्रमाणं, ब्रह्मलोकलान्तकयोः पञ्च महाशुक्रसहस्रारयोश्वत्वारः आनतप्राणतारणाच्युतेषूत्कृटायुषां सुराणामुत्कृष्टशरीरहानिमतां त्रयो हस्ताः शरीरमानं, ग्रैवेयकेषु सर्वोपरि द्वौ हस्तौ अनुत्तरविमानेषूत्कृष्टायुषां देवानामेको हस्तः शरीरमानं, जघन्यं च शरीरमानममीषां प्रागेवोक्तं एतच्च सप्तरत्न्यादिकं वपुर्मानं देवानां भवधारणीयसहजशरीरापेक्षया वेदितव्यम्, उत्तरवैक्रियं त्वच्युतदेवलोकपर्यन्तानाममराणां जघन्यतोऽङ्गुलसंख्येयभागः उत्कृष्टतस्तु योजनलक्षं स्वयमेवावसेयं,
देवानां शरीरमानं
॥ १७२॥